शनिवार, 24 सितंबर 2016

संस्कृतशिक्षया कौशलविकासः संभवोSस्ति

!!!---: संस्कृतशिक्षया कौशलविकासः संभवोSस्ति :---!!!
===================================

संस्कृत-भाषायाः महत्त्वं सर्वविदितम् एव अस्ति । प्राचीनकाले इयं भाषा व्यावहारिकी भाषा आसीत् , अर्थात् सामान्य-जनाः अपि संस्कृतेन संभाषन्ते स्म । तस्मिन् काले भारतवर्षे सर्वरूपेण विकसितम् आसीत् । एतेन एव कारणेन भारतवर्षं विश्वगुरुः इति अभिधीयते स्म । यथा प्राचीनकाले भारते संस्कृते कौशलस्य विकासः अभवत्, सम्प्रत्यपि संभवेत् । कौशलविकासस्य अभिप्रायः अस्ति यत् विशेषयन्त्रनिर्माणविधिः, येन मानवसमाजस्य विभिन्नप्रकारेण लाभो भवेत् । विज्ञाने सर्वत्र आविष्काराः भारते अभवन् । तद्यथा---

शल्यचिकित्सा, अंगप्रत्यारोपणम्, औषधीय-विज्ञानम्, वनस्पतिविज्ञानम्, शरीररक्षा, कृषिविज्ञानम्, पशुचिकित्सा, यन्त्रनिर्माणविधिः, खगोलविज्ञानम्, संगीतविज्ञानम्, गणितशास्त्रम्, भौतिकविज्ञानम्, रसायनशास्त्रम्, जीवविज्ञानम्, आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, भूविज्ञानम्, नक्षत्रविज्ञानम्, धातुविज्ञानम्, रत्नविज्ञानम्, विमानविज्ञानम्, वास्तुविज्ञानम्, शिल्पविज्ञानम्, सैन्यविज्ञानम् च भारतस्य महती विद्या आसीत् । एतानि भारतस्य महत् कौशलानि आसन् । एतेषां कौशलानां विकासः संस्कृतेन भारते सम्प्रत्यपि संभवोSस्ति ।

इदं ज्ञातव्यम् अस्ति यत् कौशलानां विकासाय कापि भाषा बाधा नास्ति । यदि सा भाषा मातृभाषा भवेत् तर्हि कौशलानां विकासः अतिशीघ्रतया संभवेत् । एतस्य उदाहरणं भारते अस्ति—ए.प.जे.अब्दुल-कलामः । अन्य देशे जापानदेशे जापानी-भाषायामेव कौशलानां विकासः भवति । जर्मनी-देशे , फ्रांसदेशे, रूसदेशे, चीनदेशे, स्वीडनदेशे, डेनमार्कदेशेSपि च तद्-तद् देशे तस्यां भाषायामेव कौशलानां विकासः अभवत् भवति च , तर्हि संस्कृतभाषायां कौशलानां विकासः कथं न भवेत् । भवेदेव । यदा भारतदेशः परतन्त्रः आसीत् तदा अस्माकं विकासः अवरुद्धः जातः , किन्तु तस्मिन् कालेSपि कश्चित् विकासः अवश्यमेव अभवत् ।

भवन्तः जानन्ति किम् विमानस्य आविष्कारः भारते सर्वप्रथमम् अभवत् । इतिहासे तु अमेरीकीयस्य राबर्ट-बन्धोः नाम प्रसिद्धः अस्ति, किन्तु इदं सत्यं नास्ति । राबर्ट-बन्धोः 10 वर्ष पूर्वमेव भारते महाराष्ट्रीयेण श्रीशिवकरबापू जी तलपडे-महोदयेन विमानम् आविष्कृतम् । एतस्य प्रदर्शनं 1865 तमे ख्रीष्टाब्दे मुम्बई-नगरे अभवत् । अस्य इतिहासः वर्तते । अनयोः पूर्वयोः भारते विमानयन्त्रस्य आविष्कारः ऋषिः भारद्वाजः कृतवान् । तस्य कृतिः ”विमानशास्त्रम्” सम्प्रति उपलब्धयते । अस्य उल्लेखः ऋषिणा दयानन्देन स्वरचितायाम् ”ऋग्वेदादिभाष्यभूमिकायाम्“ कृतः । को ना जानाति यत् भारते पुष्पकविमानस्य सम्बन्धे । श्रीरामः यदा रावणं विजितवान्, तदा श्रीरामः, लक्ष्मणः, सीता च पुष्पकविमाने स्थित्वा अयोध्यायाम् आगतवन्तः । प्राचीने भारते ऋषिः नारदः सर्वत्र निर्बाधरूपेण परिभ्रमति स्म । तस्य पार्श्वे विमानयन्त्रम् आसीत् । को न जानाति यत् भारते एव शून्यस्य, दशलमपद्धतेः, गणिते पाई-इत्यस्य आविष्काराः अभवन् । ये जनाः कथयन्ति यत् गतेः नियमानाम् आविष्कारः न्यूटन इति कृतवान्, ते नैव सम्यक् जानन्ति, ते तु त्रुटौ वर्तन्ते । सत्यम् एदम् अस्ति यत् गतेः नियमानाम् आविष्कारा भारते पूर्वमेव वराहमिहिर-आचार्येण कृतः ।

भारते सामान्यजनाः अपि कौशलानाम् अधिष्ठातारः आसन् । तद्यथा---नापिताः इति शल्यचिकित्सकाः आसन् । प्राचीने भारते नापिताः एव शिशूनाम् जन्म कारयन्ति स्म , सामान्य व्रणानाम् चिकित्सा ते नापिताः एव कुर्वन्ति स्म । इत्थमेव कुम्भकाराः विशेषमृत्तिकया कुम्भम् निर्मान्ति स्म । तेन भिन्नेन कुम्भेन भोजनं पचति, जलं स्थापयति, अन्नभण्डारं कारयन्ति स्म । इयं विधा विशेषविधा अस्ति । न अन्य जनः ईदृशं कर्तुम् शक्नोति । इत्थमेव लौहकाराः, स्वर्णकाराः, चर्मकाराः, काष्छकाराः, तन्तुवायाः, कृषकाः इत्यादयः महान्तः वैज्ञानिकाः आसन् । श्रीमान् राजीवदीक्षित महोदयस्य कथनं वर्तते यत् एते जनाः भारतस्य महान् सेवकाः आसन् । अतः भारते सम्प्रत्यपि संस्कृतेन कौशलानां विकासः भवत्येव इति न कापि विप्रतिपत्तिः ।



अस्याः भाषायाः वैज्ञानिकातां विचार्य एव संगणक-विशेषज्ञाः कथयन्ति यत् संस्कृतमेव संगणकस्य कृते सर्वोत्तमा भाषा विद्यते । अमेरीकास्थिते नासा संघे संस्कृतभाषायाम् शोधः प्रचलति । अमेरीका, इंग्लैण्ड, आस्ट्रेलिया आदि देशेषु विद्यालयेषु संस्कृतभाषा अनिवार्या अस्ति । अतः इयं वेला आगता अस्ति यत् भारतेSपि संस्कृतस्य वर्द्धनं स्यात् ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

रविवार, 18 सितंबर 2016

संस्कृतशिक्षया विश्वबन्धुत्वम्

!!!---: संस्कृतशिक्षया विश्वबन्धुत्वम् :---!!!
=============================|

विश्वेस्मिन् केवलं संस्कृतभाषा एवास्ति या विश्वम् एकसूत्रे बन्धयति । इयं विशेषता न अन्यस्यां कस्यामपि भाषायाम् वर्तते । संस्कृत तु सहनशीलतां शिक्षयति, उदारतां शिक्षयति, लोभं निवारयति, अन्यस्य धनं प्रति निर्लोभाय प्रेरयति । एतानि एव कारणानि सन्ति येन संस्कृतं परस्परं विश्वासं कारयति । अन्या भाषा तु परस्परं कलहम् उत्पादयति , अविश्वासं जनयति, असत्यभाषणं कारयति । संस्कृतम् उदारतां विश्वबन्धुत्वं च शिक्षयति । एतस्य उदाहरणम् अस्ति---

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।


एकस्मिन् उदाहरणे आचार्य-चाणक्यः शिक्षयति यत् मानवसमाजस्य कल्याणाय पृथिव्याः च उद्धारणाय स्वराष्ट्रम् अपि त्यजेत् । ईदृशः उदाहरणम् अखिले एव विश्वे न कुत्रापि प्राप्नोति । केवलं संस्कृते एव प्राप्नोति । अस्माकं संस्कृते इयं विशेषता अस्ति यत् निखिला एव वसुधा अस्माकं कुटुम्बः परिवारः चास्ति । पश्यन्तु भवन्तः एव श्रीकृष्णः गीतायां शिक्षयति यत् सर्वेषु प्राणेषु आत्मानं पश्यतु, स्वेषु च सर्वान् प्राणिनः पश्यतु , इत्थं स्वात्मानं पाप्मना निवारयितुं शक्नोति । 

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।
(गीता 6.29)

 ईदृशः उपदेशः इह संसारे न कुत्रापि उपलब्ध्यते, प्राप्नोति वा । ईदृशी व्यवस्था विशेषता वा केवलं संस्कृते एव प्राप्नोति । अस्मिन् मार्गे चलन् अवश्यमेव विश्वबन्धुत्वस्य स्थापनां संभवेत् ।

एकस्मिन् अन्यस्मिन् स्थले श्रीकृष्णः योगं समत्वं घोषयति---योगः समत्वम् उच्यते (गीता 2.48) अर्थात् समाजे सर्वत्र प्राणिषु समता भवेत् इति तस्य मतिः अभिप्रायः वा ।

संस्कृतं तु प्रभुभक्तिं शिक्षयति न कलहं विवादं वा, 

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।।


संस्कृतं तु न्यायं शिक्षयति न अन्यायम्, पश्यतु---
न्यायात् पथः प्रविचलन्ति पदं न धीराः ।

संस्कृतं तु विनयं शिक्षयति, विनयेन सर्वत्र शान्तिः, सुखं, विश्वासः च प्रसरन्ति---विद्या ददाति विनयम् ।

संस्कृतं तु सदैव परोपकाराय शिक्षयति,परोपकारेण समाजे, विश्वे बन्धुत्वस्य प्रसारः भवेत्---
परोपकाराय सतां विभूतयः।

अधुना भौतिकतायाः युगे निखिले एव संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति, संस्कृतं तु सर्वेषामेव प्राणिनाम् कल्याणाय सुखाय च प्रेरयति---

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।।

वेदे तु आगच्छति यद् अन्येभ्यः अपि भोजनं पचतु, एकाकी मा खादेत्---
केवलाघो भवति केवलादी । (ऋग्वेदः—10.117.6)

श्रीकृष्णः अपि घोषयति गीतायाम्---
भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् । (गीता—3.13)

शान्त्यै अपि संस्कृतम् उत्तमम् उदाहरणं प्रस्तौति---
निर्ममो निरहंकारः स शान्तिमधिगच्छति । (गीता---2.71)

अद्य निखिले एव संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । अस्यां परिस्थितौ अपि संस्कृतं अहिंसां शिक्षयति--- अहिंसा परमो धर्मः ।

एतेषां सर्वेषाम् अवगुणानां कारणं विश्वबन्धुत्वस्य अभाव एव दरीदृश्यते । अस्य समाधनम् अस्ति—संस्कृतभाषायाः शिक्षणम् ।

किं बहुना , आधुनिककाले
Sपि संस्कृते प्रतिष्ठा वर्तते । 1875 ख्रीष्टाब्दे थियासोफिकल सोसायटी इत्यस्य अमेरीकायां स्थापना अभवत् । तस्य उद्देश्यमेवासीत्—विश्वबन्धुत्वम् । भवन्तः जानन्ति अस्य प्रेरणा कुतः प्राप्नोत् –आर्यसमाजतः, ऋषि-दयानन्दतः । अस्य संस्थापिका मैडम ब्लैड्वस्की ऋषि-दयानन्दस्य शिष्या आसीत्, या पत्रद्वारेण संस्कृतस्य शिक्षाम् अगृह्णात् ।

भवन्तः किं जानन्ति यत् पूर्व-जर्मनी पश्चिम-जर्मनी च कथम् अमिलताम्, एकसूत्रे कथं वर्तेताम् । अस्यापि कारणं संस्कृतमेवास्ति । सप्तदश-अष्टादश-शताब्द्यां जर्मनी-देशे संस्कृतं प्रति सर्वेषां मनसि उत्सुकता जिज्ञासा च प्रादुरभूत । तेन सर्वे जर्मनी-वासिनः संस्कृतम् पठितुम् समुत्सुकाः अभवन् । संस्कृतशिक्षया एव ते अमिलन् ।

अतः वयं कथयितुं शक्नुमः यत् संस्कृतशिक्षया विश्वबन्धुत्वम् संभवेदेव इति मे मतिः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

रविवार, 11 सितंबर 2016

मृच्छकटिकम्

!!!---: मृच्छकटिकम् :---!!!
=========================

संस्कृतवाङ्मये मृच्छकटिकम् प्राचीननाटकेषु मुख्यतमम् । शूद्रकेण लिखितम् संस्कृतनाटकम् अस्ति। नाटकेषु प्रकरणवर्गे इदंनाटकम् अन्वेति । अस्मिन् दश अङ्काः वर्तन्ते। अस्मिन् नाटके कान्यपि कपोलकल्पितानि कृतकता च न भवतः । स्वभावोक्त्यलङ्कार इव सहजसुन्दराणि दृश्यानि भवन्ति । यथा विशाखदत्तस्य मुद्राराक्षसम् वर्तते तथैव वस्तुवद्रचनया शोभते ।

मृच्छकटिकं इति नाटकस्यादौ शुद्रकस्य परिचयः यथा वर्णितोऽस्ति, तदनुसारेण शूद्रकः हस्तिशास्त्रेषु प्रवीणः आसीत् । अनेन शिवस्यानुग्रहेण ज्ञानं प्राप्तं, विधिना चाश्वमेधयज्ञं कृतवान् । राज्यसिंहासने पुत्रं प्रतिष्ठाप्य शतायुः शूद्रकोऽग्निं प्रविष्टः । अग्निप्रवेशस्य कथा केनाप्यन्येन नाटकेऽस्मिन् सन्निवेशितेति प्रतीयते, यतो हि लेखको भावीक्रियायाः प्रयोगः स्वात्मनि कर्तुं नार्हति ।

मृच्छकटिकस्य कथाभागः
=====================

अत्र रुपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रणं कृतं, परं तेनैव सह तात्कालिकसमाजस्य चित्रमप्यङ्कितम्, एतत्प्रकरणगतकथा भागद्वयेविभक्ता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनीषति, द्वितीयश्च भाग आर्थकस्य राज्यप्राप्तिं प्रगुणयति । प्रथर्मोऽशो भासकृतस्य दरिद्रचारुदत्तनामकस्य रुपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीर्योऽशश्च कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्यं स्फुटम् । दशाङ्कनिबध्देऽत्र रुपके कविना क्वचन गुणवति वदान्यतया दरिद्रे च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा, शकारस्य तत्रानुरागोदयस्तस्यामनुरगमनवदधत्यां द्वेषस्तन्मूला तद्वधप्रवृत्तिः, ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः, भाग्यवशात्तदुज्जीवनम्, राज्यपरिवर्त्तनेनार्यकस्य राज्यप्राप्तिश्चारुदत्तवसन्तसेनयोर्विवाहश्छेत्यादयोऽर्था निपुणं वर्णिताः ।

चरित्राणि
===============

वसन्तसेना उज्जयिन्या वेश्या याऽत्र प्रधाननायिका । वेश्यापि सा प्रेम कर्तुं जानाति, मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वधप्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः, परं स्त्रियामपेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते । धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसहनोद्यता । सा हि सपतिकलङ्कप्रक्षालनाय स्वईयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामाभरणानां परिवर्त्ते दातुमुद्यता । शकारो नितान्तगर्वी चारुदत्तस्याकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठं मर्दयति तद्देषं च चारुदत्तस्य शिरसि न्यस्यति, तथापि चारुदत्तस्तस्मै क्षमां ददाति ।

अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रुपकमिदं सजीवमिव सम्पन्नम् ।
अत्रत्यानि पात्राणि न कल्पितस्वरुपाण्यपि तु सर्वत्र सुलभानीति विशेषः ।
तत्कालिकी समाजदशा शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तत्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति ।

तस्मिन्समये उज्जयिनी भारतस्य समृध्दा नगरी, फलतस्तत्र चौर्यद्यूतयोः प्ररुढः प्रचारोऽवर्त्तत । वेश्यालयानां प्राचुर्यं विलासितायाः प्रमाणम् ।

मनुस्मृतिर्न्यायालयेष्वाद्रियमाणाऽऽसीत् । ब्राह्मणा अपि व्यापारार्जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणां सहयोगमपेक्ष्यैव कार्यं चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमीयन्त यत्र रोगिणां शुश्रुषाऽपि व्यधीयत । क्रितदासप्रथाऽवर्त्तत । राजशक्तेर्दुर्बलतायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्त्तनं दृश्यते । बौध्दधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् ।

शैली
===========

शूद्रकस्य शैली सरला, प्रसाद-गुण- गुम्फिता चास्ति । लम्बायमानस्य वृत्तस्य प्रयोगोऽतिन्यून एव । नूतनो भावः, अभिनवोऽर्थः स्थले-स्थले प्राप्यते । नाटकस्य मुख्यो रसः श्रृंङ्गारः । वर्षर्तुवर्णनं शूद्रकेण कियन्मनोहरं विशदीकृतमिति न कदापि विस्मर्तव्यम् । विविधाः चमत्कृतसूक्तयः नाटके दरीदृश्यन्ते, कविना न्यायालयस्य वर्णनं कियत्सुन्दरं कृतमिति दृश्यताम् –

"चिन्तासक्तनिमग्नमन्त्रिस्सलिलं, दूतोर्मिशङ्काकुलम्
पर्यन्तस्थितचारनक्रमकरं, नागाश्वसिंहाश्रयात् ।
नानावासक- कङ्क – पक्षिरुचिरं कायस्थसर्वास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥"

अनेन प्रकारेण शूद्रकः मृच्छकटिकनाटके यत्र तत्र समाजस्य, राज्ञः, तथा राजकर्मकस्य, वेश्यायाः चौरस्य च एतादृशं चित्रं प्रतौति यत् नाटकपठनेन तत्कालीनसमाजस्य चित्रम् अस्माकं सम्मुखे आलिखित-चित्रमिवावभासते । किमधिकं मृच्छकटिकनाटकं सफलं समाजिकं नाटकमिति न केषाञ्चित् विमतिः ।

शूद्रकस्य काव्यशैली सरलतमा, दीर्घः समासो गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरुकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रुपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । हासप्रयोगेऽपि कवेरस्य साफल्यम । यज्ञोपवीतस्योपयोगे विचार्यमाणे- यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्विधस्य, कुतः-

"एतेन मापयति भित्तिषु कर्ममार्गा-
नेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनञ्च ॥"

सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्कारित्वमक्षुण्णमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति ।

कथा
========

एषा चारुदत्तस्य कथा अस्ति। सः नटीम् वसन्तसेनाम् कामयति। परम् एकः राजसभास्थः अपि ताम् प्रलुभ्यति। एषा कथा हास्या बोधना चास्ति।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/