शनिवार, 7 मई 2016

कल्पना चावला

!!!---: कल्पना चावला :---!!!
========================

देवभूमिरियं भारत वसुन्धरा सर्वदा देवैः पूजिता अभिनन्दिता च । इयं यथा शूराणां देशभक्तानाम् महात्मनां चापि जनन्यस्ति तथैव भूमिरियं--वैज्ञानिकानामपि जनयित्री अस्ति । ये भारते जन्म लब्ध्वा स्वकर्मणा कीर्त्या च भारत भूमिमलमकुर्वन् । अस्यामेव शृंखलायामन्तरिक्ष वैज्ञानिक विशिष्टा गवेषिका कल्पना चावला प्रमुखं स्थानं लभते ।

भारतस्य हर्याणा-प्रान्ते करनाल नामाख्ये नगरे कल्पना चावलायाः जन्म अभवत् । बाल्यकाले पठने अस्याः विशेषरुचिरासीत् । 1976 ख्रिस्ताब्दे करनाल नगरस्य टैगोर-महाविद्यालयात् अनया स्नातक-परीक्षा समुत्तीर्णा ।

अध्ययने अस्याः रुचिमवलोक्य शिक्षकाः इमां प्राशंसन् । पंजाबीयाभियान्त्रिकी महाविद्यालयात् 1982 ई. वर्षे एरोनाटिकल अभियान्त्रिकी क्षेत्रे स्नातकोपाधिः अनया समुपलब्धः । 1984 ख्रिस्तीयः वर्षे कल्पना चावला टेक्सास विश्वविद्यालयात् एरोस्पेस अभियान्त्रिकी क्षेत्रे अधिस्नातक (मास्टर ऑफ साइंस) उपाधिः सम्प्राप्तः । कोलोरेडो विश्वविद्यालयात् 1988 ई. वर्षे एस्पेस अभियान्त्रिकी विषये विद्यावारिधि (पीएच.डी.) इत्युपाधिं प्राप्तवती ।

कल्पना चावला तस्मिन्नेव वत्सरे अमेरिका राष्ट्रस्य अन्तरिक्ष-शोध विभागे (नासा) सम्मिलिता अभवत् । तत्र तया अनेके शोधाः विहिताः । 1993 ई. वर्षे कैलिफोर्निया-विश्वविद्यालयस्य ओवरशेडमेथरडस इति शोध परियोजनायाः नेतृत्वमकरोत् । अस्याः साहसं पूर्णानि कार्याणि अवलोक्य अमेरिकीयान्तरिक्षानुसंधान-विभागस्य (नासा) वैज्ञानिकाः प्रासीदन् । 1984 ख्रिस्ताब्द्यां दिसम्बर मासे-अमेरिकीयान्तरिक्ष-शोध-विभागे कल्पना चावला चयनिता जाता ।

1995 ईस्वीये वर्षे मार्च मासे पञ्चदश सदस्यीयान्तरिक्ष यात्रिणां समूहे सा सम्मिलिता अभवत् । इतश्च नासा संस्थानम् एकवर्षीय प्रशिक्षणानन्तरं कल्पनायै एस्ट्रानाट ऑफिसी रोबोटिक्स संगणक शाखायां तकनिकीय विषयाणां दायित्वं अददात् ।

कल्पना चावला 1997 ख्रिस्तीय वर्षस्य नवम्बर मासस्य एकोनविंशतिः तारिका दिने कोलम्बिया नामाख्येन अन्तरिक्षयानेन षड्खगोलविद्भिः अमेरिका वास्तव्यैः सह अन्तरिक्षमगच्छत् । तत्रान्तरिक्षे विविधविषयकान् शोधान् कृत्वा सकुशलं ततः समायाता । इतश्च पुनरियं 2003 ख्रिस्तीय वर्षे जनवरी मासस्य 16 तारिकायां दिने अमेरिका-राष्ट्रस्य कोलम्बिया-नाम्ना अन्तरिक्षयानेन अनुसंधानकार्यं कर्तुं केपकेनरेवल-यान-प्रक्षेपण-केन्द्रात् पुनः अन्तरिक्षमगच्छत् ।

तत्रान्तरिक्षे षोडश दिनानि यावत् महत्त्वपूर्णानि शेधकार्याणि कृत्वा सहयोगिभिः सह पृथिवीं प्रत्यागच्छन्ती आसीत्, तदैव दैवदुर्विपाकेन प्रक्षेपण केन्द्रात् अन्तरिक्षयानस्य सम्पर्कः विछिन्नः अभूत् । फरवरीमासस्य प्रथमायां तारिकायां यानं दुर्घटनाग्रस्तं जातं तेन कारणेन सहयोगिभिः सार्धं कल्पना चावला पञ्चत्वं गता । अखिलं विश्वं दुर्घटनां इमां विज्ञाय शोके निमग्नमभूत् ।

यद्यपि कल्पना चावला पाञ्च-भौतिक-देहं विहाय स्वर्गमगच्छत् किञ्च तत्कार्याणि सर्वदैव अविस्मरणीयानि स्थास्यन्ति ।

यशः शरीरेण सा अद्यापि अस्माकं मध्ये उपस्थिता प्राणपणेन विश्वकल्याणाय अन्तरिक्षस्य रहस्य गवेषणाय अस्मान् सततं प्रेरयति । कल्पनां प्रसूय भारत-माता अखर्वगर्वम् अनुभवति ।
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें