सोमवार, 27 जून 2016

गुरुभक्तः आरुणिः

!!!---: गुरुभक्तः आरुणिः :---!!!
============================

प्राचीनकाले एकस्याः नद्याः तटे एकः ऋषिः वसति स्म । तस्य नाम धौम्यः आसीत् । तस्य आश्रमे सहस्रः छात्रा विद्याध्ययनार्थम् आगच्छन्ति स्म । ते छात्राः आश्रमस्य छात्रावासे निवसन्ति स्म । तेषु छात्रेषु आरुणिरपि एकः छात्रः आसीत् ।

आरुणइः धौम्यस्य शिष्येषु एकतमः आसीत् । सः सौम्यः, विनम्रः, सरलहृदयश्च आसीत् । सः सर्वदा गुरोः आज्ञाम् पालयति स्म । आश्रमस्य पशूनां चारणम्, सत्यस्य रक्षणम्, वृद्धानां सेवा, आश्रम-वटुकानां सहायता च तस्य मुख्यानि कार्याणि आसन् । अतः गुरुः तस्मिन् अतीव स्निह्यति स्म ।

एकदा गुरुः अध्यापने व्यस्तः आसीत् । तदैव नभः मेघैः आच्छादितम् अभवत् । शीघ्रं च धारासारैः वृष्टिः आरब्धा । सर्वे छात्राः गुरोः आदेशात् छात्रावासं प्रति अधावन् । तदा गुरुः आरुणिम् आह्वयत् आदिशत् च---"वत्स ! त्वं शीघ्रं गत्वा जलप्रवाहं बहिः गमनात् अवरोधय ।"

आरुणिः गुरोः आज्ञां स्वीकृत्य तथा कर्तुम् क्षेत्रम् अगच्छत् । तत्र च भग्नं मृत्तिकाबन्धं पुनः दृढं कर्तुम् अयतत । परं जलवेगः मृत्तिकया न अवरुद्धः । आरुणिः चिन्तितोSभवत् । मृत्तिकया बन्धं दृढं कर्तुम् असौ अधुना असमर्थः आसीत् ।

गुरोः आज्ञां कथं सफला भवेत् इति विचार्य स निजशरीरम् एव बन्धस्थाने अस्थापयत् । दिवसो रजन्यां परिवर्तितः । रात्रौ यदा धौम्यः छात्रेषु आरुणिं नापश्यत् तदा स वटुकान् अपृच्छत्---"आरुणिः कुत्रास्ति ?"

एकः छात्रः अवदत्---"गुरो ! भवान् एव तं क्षेत्रे जलम् अवरोद्धुम् प्रैषयत् ।"

अनेन धौम्यः आरुणि-विषये अतीव चिन्तितः अभवत् । स शीघ्रं शिष्यैः सह क्षेत्रं प्रति अगच्छत् । तत्र उच्च स्वरेण गुरु आकरयत्---"वत्स ! आरुणे ! कुत्रासि ?" क्षीणस्वरेण आरुणिः अवदत्---"गुरो ! अहम् अत्र अस्मि ।"

मृत्तिका-लिप्त-देहस्य निज-प्रिय-शिष्यस्य गुरु-भक्तिम् दृष्ट्वा सः अतीव प्रसन्नोS भवत् । यतः आरुणिः निजदेहेन बन्धं दृढं कृत्वा आश्रमस्य शस्यस्य रक्षाम् अकरोत् ।

प्रसन्नो भऊत्वा गुरुः आशीर्वादम् अयच्छत्---"पुत्रक ! विद्वान् भव ।!!" गुरोः आशीर्वादेन आरुणिः विद्वान् भूत्वा संसारे प्रसिद्धः अभवत् ।

अस्य एव पुत्र आसीत्---श्वेतकेतुः । तस्य कथाम् अग्रे आगमिष्यति ।


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें