रविवार, 14 फ़रवरी 2016

दधीचेः औदार्यम्

!!!---: दधीचेः औदार्यम् :---!!!
=========================
www.vaidiksanskrit.com

पुरा वृत्रासुरः देवान् भृशम् अपीडयत् । इन्द्रादयः ते देवाः प्रजापतिम् उपागच्छन् । तान् समागतान् दृष्ट्वा प्रजापतिः आगमनस्य कारणम् अपृच्छत्---"प्रभो !!! वृत्रासुरः अस्मान् पीडयति । तस्य शक्तेः पुरतः वयं स्थातुं न शक्नुमः । अतः भीताः वयम् अत्र आगताः ।"


प्रजापतिः अभणत्---"हरिः एव अस्मान् रक्षितुम् समर्थः । तमेव शरणं गच्छामः ।"

प्रजापतिः देवैः साकं वैकुण्ठं गत्वा हरये सर्वमपि वृत्तान्तं न्यवेदयत् । तत् श्रुत्वा हरिः अकथयत्---"भोः प्रजापते !!! देवाः महर्षेः दधीचेः अन्तिकं गत्वा तस्मात् अस्थि-याचनं कुर्वन्तु । सः नूनम् अस्थीनि दास्यति । तैः अस्थीभिः वज्रायुधं घटयत । तेन वृत्रं हन्तुं युद्धे असुरान् जेतुं च पारयिष्यथ ।"


ततः सर्वे देवाः दधीचेः तपोवनम् अगच्छन् । तत् तपोवनं कपीनां क्रीडाभिः हरिणानां विहारैः अलीनां गुञ्जनैः च रमणीयम् आसीत् । तत्र बहवः मुनयः उपविष्टाः तपस्यां कुर्वन्ति स्म ।


देवाः दधीचेः आश्रमं प्राविशन् । तत्र ते अनेकैः ऋषिभिः परिवृत्तम अग्निमिव प्रभया देदीप्यमानं दधीचिम् अपश्यन् । ते ऋषीन् दधीचिं च दृष्ट्वा अनमन् । दधीचिः इन्द्रम् अपृच्छत्---"किमर्थं यूयम् अत्र आगताः ?"


इन्द्रः सादरम् अकथयत्---"महर्षे !!! वयं वृत्रेण पीडिताः त्वां शरणम् उपागताः । कृपया त्वम् अस्मभ्यम् स्वानि अस्थीनि प्रयच्छ । घटयाम तैः अस्थिभिः आयुधम् , येन वयं वृत्रं हन्तुं पारयामः ।"


दधीचिः इन्द्रस्य वचनं श्रुत्वा नितराम् अतुष्यत् । सः अकथयत्---"भोः इन्द्र !!! अद्य मम जीवितं सफलं जातं यत् मे शरीरं युष्माकम् उपकाराय भवति । परोपकारार्थम् इदं शरीरम् । अहं युष्मभ्यम् इदं शरीरं सहर्षं प्रयच्छामि, स्वीकुरुत ।"


स नेत्रे निमील्य समाधिस्थः अभवत् । देवाः तस्य अस्थीनि आदाय तैः वज्र-आयुधम् अरचयन् । तेन च इन्द्रः युद्धे वृत्रासुरम् अमारयत् । एवं देवाः दधीचेः औदार्येण वृत्र-भयात् मुक्ताः अभवन् ।


=================================


हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

शनिवार, 13 फ़रवरी 2016

जल का महत्त्व, लक्षण

!!!---: जल का महत्त्व और लक्षण :---!!!
================================================

इस लेख में सभी प्रकार के जल का निरीक्षण और परीक्षण किया जाएगा । इसके लक्षण बतायें जाएँगे । भारतीय मनीषियों ने जितनी खोज की है, आधुनिक डॉक्टर उसका 20 प्रतिशत भी नहीं कर पाएँ हैं । यह लेख बडा अवश्य है, किन्तु जल का सम्पूर्ण वर्णन भी है ।

जल को जीवन कहा गया है । यह प्राणिमात्र का प्राण है । इसीलिए जल का पर्याय "जीवन" बन गया है । समस्त संसार को परमात्मा ने जलमय बनाया है ।

गंगा का जलः-----

"जीवनं तर्पणं हृद्यं ह्रादि बुद्धिप्रबोधनम् । तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम् ।।
गंगाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः । हिताहितत्वे तद्भूयो देशकालावपेक्षते ।।"
(अष्टांगहृदयम्--5.1-2)
आकाश से गिरा हुआ गंगा का जल जीवन , तर्पण, हृदय के लिए हितकारी, आनन्दायक, बुद्धि को बढाने वाला, तनु , अव्यक्त रस , मृष्ट, शीतल, हलका और अमृत के समान हितकर होता है । यह जल आकाश से गिरने के बाद सूर्य, चन्द्र तथा वायु के स्पर्श  से देश एवं काल के प्रभाव से हितकर भी हो सकता है और अहितकर भी हो सकता है , अर्थात् जैसे देशकाल का उसमें प्रभाव पडेगा, तदनुरूप भला या बुरा बो जाता है ।

वैद्य चरक ने भी कहा हैः---"शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम् । प्रकृत्या दिव्यमुदकम् ।।" (च.सू. 27.198)

गंगाजल का परिचयः----

"येनाभिवृष्टममलं शाल्यन्नं राजते स्थितम् । अक्लिन्नमविवर्ण च तत्पेयं गांगम्------।।"

जिस जल के बरसते समय घर के भीतर चाँदी के पात्र में परोसा हुआ शाल-चावलों का भात निर्मल बना रहे, वह क्लेदयुक्त न हो , अर्थात् पसीजने न लगे और उसका वर्ण विकारयुक्त न हो जाए, वह गंगा का जल होता है, इसे पीना चाहिए ।

समुद्र का जलः---
"अन्यथा सामुद्रं, तन्न पातव्यं मासादाश्वयुजाद्विना ।।" (अ.हृ.5.3)

उपर्युक्त गंगाजल के विपरीत जो जल होता है, उसे समुद्र का जल कहते हैं । वह पीने के योग्य नहीं होता है ।  यह जल आश्विन मास में पीने योग्य हो जाता है ।।

वैद्य चरक के अनुसार आकाश से मेघ की सहायता से बरसने वाले सभी जल एक समान होते हैं । परन्तु जब वे गिरते हैं और गिरकर जिस प्रकार के देश में तथा जिस काल में गिरकर स्थित होते हैं, तदनुसार उन जलों के गुण हो जाते हैं । (च.सू. 27.196)

प्रधान जलः---जो जल इन्द्र (मेघ) द्वारा उत्पन्न हुआ आकाश से गिरता है और स्वच्छ पात्रों में संग्रह कर लिया जाता है, उसे ही विवेकशील विद्वान् "ऐन्द्र"  जल कहते हैं । वही जल राजाओं अथवा श्रीमानों के पीने योग्य होता है । यह जल प्रायः आश्विन मास में ग्रहण किया जाता है । (च.सू. 27.202)

धन्वन्तरि के अनुसार जल दो प्रकार का होता हैः---(1.) गंगा का जल (2.) समुद्र का जल । इनमें गंगा का जल प्रायः आश्विन मास में बरसता है । इन दोनों जलों की परीक्षा करनी चाहिए । जिस समय पानी बरस रहा हो, उस समय पकाए हुए चावलों के गले हुए अविवर्ण (जिसका स्वाभाविक रंग विकृत न हुआ हो) एक पिण्ड को चाँदी की थाली में रख दें । यदि 4-5 घण्टे में भी वह पिण्ड उसी प्रकार अविकृत रहता हो, तो समझे इस समय गंगा का जल बरस रहा है । यदि उस भात के पिण्ड का रंग बदल जाए, उसमें कुछ सडन के लक्षण दिखाई दें, कुछ गंदलापन दिखाई दे, तो समझना चाहिए कि इस समय समुद्र का जल बरस रहा है । सामुद्र जल को आश्विन मास में ग्रहण किया जा सकता है । (सु.सू- 45.7)

स्पष्टीकरणः----

समुद्र का जलः--- समुद्री जल को ही सामुद्र जल कहते हैं । मानसुन द्वारा उठे हुए बादलों से जो जल बरसता है, उसे समुद्र का जल कहा जाता है ।

गंगाजलः--- जितनी भी तेज बहने वाली नदियाँ हैं, उन सबका नाम गंगा है । क्योंकि गंगा उसे कहते हैं, जिसमें निरन्तर प्रवाह (बहाव) हो ।

निष्कर्षः---गंगा का जल पीने योग्य (हितकर) होता है और समुद्र का जल पीने योग्य नहीं होता है , भले ही वह नमकीन न हो । अतः आश्विन मास से ज्येष्ठ मास तक जो वर्षा का जल होता है, वह पानीय (पीने योग्य) होता है, शेष महीनों में बरसने वाला जल सामान्यतः अपेय होता है ।

पानीय जलः---""""""""""
=====================================

Sanskrit

!!!---: संस्कृतभाषायाः महत्त्वम् :---!!!
=================================
www.vaidiksanskrit.com
++++++++++++++++++++++++++++

विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति । भाषेयं बह्वीनां भाषाणां जननी मता । अस्यामेव भाषायां ज्ञानविज्ञानयोः निधिः सुरक्षितोस्ति । यथोक्तम्---"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ।" इयमेव भाषा भारतवर्षस्य संस्कारभाषा ।

इयं भाषा न केवलं भारतवर्षस्य अपितु विश्वस्य प्राचीनतमा भाषा, अत एव अस्याः महत्त्वम् अतीव वर्तते । अस्यां भाषायां सर्वाधिकारस्य वाङ्मयस्य संरचना जाता, एषा भाषा अतीव वैज्ञानिकी च विद्यते । अस्याः पाणिनीयं व्याकरणम् अतीव वैज्ञानिकम् अस्ति । संस्कारयुक्ता परिष्कृता चेयं भाषा "संस्कृत" इति कथ्यते । अस्याः अन्यत् नाम देवभाषा, देववाणी, सुरवाणी, गीर्वाणवाणी चाप्यस्ति । एभिः अपि अस्याः भाषायाः महत्त्वं परिवर्धते ।

सम् पूर्वकात् कृ धातोः निष्पन्नोयं संस्कृतशब्दोस्या भाषाया प्रकृति प्रत्ययादिभिः संस्कृतत्त्वं परिनिष्ठितत्त्वं च रूपं प्रकटयति ।

www.facebook.com/vaidiksanskrit

अस्याः भाषायाः वैज्ञानिकतां विचार्य एव संगणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव संगणकस्य कृते सर्वोत्तमा भाषा विद्यते । अस्याः वाङ्मयं वेदैः, उपवेदैः, आरण्यकैः, उपनिषद्भिः, ब्राह्मणग्रन्थैः, वेदांगैः, उपांगैः, सूत्रग्रन्थैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धम् अस्ति । कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् । चाणक्यरचितम् अर्थशास्त्रम् जगति प्रसिद्धम् अस्ति । गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणौ अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम् । संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते, तेषु खगोलविज्ञानं वास्तुशास्त्रं रसायनशासत्रं ज्योतिष्-शास्त्रं विमानशास्त्रम् च उल्लेखनीयम् ।

www.facebook.com/shishusanskritam

संस्कृतभाषा न केवलं भारतवर्षस्य अपितु विश्वस्य अनेकानां भाषाणां जननी अस्ति । भारतवर्षः अनेकतायाः उदाहरणस्वरूपः देशो विद्यते , यदि वयं अनेकतायाः एकतायाः परिदर्शनं कर्तुम् वाञ्छामः यदि वयं भाषागत-वैमनस्यं दूरीकर्तुम् इच्छामः, तर्हि अस्माभिः भाषा एषा वर्त्तमानसमये राष्ट्रभाषारूपेण प्रतिष्ठिता कर्त्तव्या ।

भारते संस्कृतभाषायाः प्रतिदिनं विविधसंस्कारकार्येषु प्रयोगः भवति । एतस्याः अनेकासु विशेषतासु इयम् अन्यतमा विशेषता यत् अस्याः वाङ्मये विद्यमाना सूक्तयः अभ्युदयाय प्रेरयन्ति । एत एव वयं भारतप्रशासनस्यविभिन्नेषु विभागेषु ध्येय-वाक्य-रूपेण एतेषां प्रयोगं पश्यामः ।

www.facebook.com/laukiksanskrit

(1.) भारतसर्वकारस्य राजचिह्नं वर्तते--अशोकचक्रम् । तस्मिन् लिखितम् अस्ति--"सत्यमेव जयति" । (2.) जीवनबीमानिगमस्य चित्रे द्वयोः हस्तयोः मध्ये एकः दीपः अस्ति । अधः च "योगक्षेमं वहाम्यहम्" इति लिखितम् अस्ति । (3.) भारतीयवायुसेनायाः चिह्ने विमानं वर्तते । तत्र लिखिं वायुसेनायाः ध्येयवाक्यम्--"नभः-स्पृशं दीप्तम्" संस्कृत-भाषायाः गौरवगाथां प्रकटयति ।(4.) हरयाणा-शासनस्य राज्यचिह्नस्य चित्रे अपि श्रीमद्भागवतगीतायाः--"योगः कर्मसु कौशलम्" इत्ययं श्लोकांशः जनान् प्रेरयन्ति । (5.) लोकसभाध्यक्षस्य आसनस्य-उपरि अपि सर्वोच्च-स्थाने उल्लिखिता अस्ति---"धर्मचक्र-प्रवर्तनाय"--इति संस्कृतवाक्यम् । (6.) लोकसभायाः केन्द्रीयसभातलस्य भित्तिकायां--"अयं निजः परो वेति"--सुप्रसिद्धः संस्कृत-श्लोकः लिखितः अस्ति । (7.) डाक-तार-विभागस्य (पत्रालयस्य) ध्येयवाक्यम्---"अहर्निशं सेवामहे"---अतीव उपयुक्तम् अस्ति । यतः अस्य विभागस्य कार्यं दिने रात्रौ च निरन्तरं चलति । (8.) राष्ट्रीयशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदः ध्येयवाकयम्---"विद्ययामृतमश्नुते" वर्तते ।

www.facebook.com/chaanakyaneeti

संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति । महापुरुषाणां मतिः उत्तमजनानां धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम् अवश्यमेव पठनीयं येन मनुष्यस्य समाजस्य च परिष्कारः भवेत् ।

जयति मंगला संस्कृतवाणी


=======================================
www.facebook.com/girvanvani

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
(10.) डॉ. प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(11.) संवाद
www.facebook.com/somwad
(12.) दिल से
www.facebook.com/dilorshayari
(13.) आर्य समाज
www.facebook.com/satyasanatanvaidik
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari

मंगलवार, 9 फ़रवरी 2016

!!!---: भोजराजस्य संस्कृतानुरागः :---!!!

!!!---: भोजराजस्य संस्कृतानुरागः :---!!!
===============================
www.vaidiksanskrit.com

महाराजः भोजः संस्कृतभाषायाः महान् विद्वान् आसीत् । तस्य संस्कृतानुरागः लोकविश्रुतः अस्ति । धारानगरी तस्य राजधानी आसीत् । तस्यां नगर्याम् अनेके कवयः आसन् । भोजेन निजराज्ये इयं घोषणा कृता आसीत्----"मम राज्य संस्कृतस्य पण्डिता एव केवलं वत्स्यन्ति । ये जनाः संस्कृतभाषां न जानन्ति, ये च काव्यं कर्तुम् न शक्नुवन्ति तेषां कृते मम राज्ये स्थानं नास्ति ।"

एकदा वाराणसीतः कश्चिद् विद्वान् भोजराजस्य राजधानीम् आगच्छत् । सम्प्रति तस्य आवासस्य प्रबन्धः धारानगर्यामेव करणीयः आसीत् ।

भोजराजः सेवकान् समादिशत्---"भो सेवकाः, नगरी गत्वा पश्यत । यदि कश्चिद् अपण्डितः तत्र वसति सः शीघ्रं नगराद् बहिः कर्त्तव्यः । तस्य स्थाने अयं पण्डितप्रवरःवत्स्यति ।"

राजपुरुषाः धारानगर्याः कोणे-कोणे अभ्राम्यन् परं ते तत्र कमपि अपण्डितं नापश्यन् । सायंकाले ते कस्यचित् तन्तुवायस्य गृहं गत्वा एकं तन्तुवायं गृहीत्वा भोजराजस्य सम्मुखे अनयन् । भोजराजः तन्तुवायम् अपृच्छत्---"भो तन्तुवाय, मम देशे केवलं संस्कृतस्य पण्डिता एव वसन्ति नान्ये । अपि त्वं संस्कृतं जानासि, संस्कृतम् आश्रित्य काव्यं कर्तुं वा समर्थः असि ।"

तन्तुवायः प्रत्यवदत्---"महाराज ! तन्तुवयनं मम व्यवसायः । अहं रात्रिन्दिवम् परिश्रम्य अनेन व्यवसायेन जीविकाम् अर्जयामि । काव्यरचनायां महाकवितुल्यः मम अभ्यासः नास्ति तथापि किञ्चित् निवेदयामि । श्रोतुम् अर्हन्ति भवन्तः"---

"काव्यं करोमि नहि चारुतरं करोमि,
यत्नात् करोमि यदि चारुतरं करोमि ।
भूपालमौलिमणिमण्डितपादपीठ,
हे साहसाङ्क, कवयामि वयामि यामि ।।"

भोजराजः---"साधु कुविन्द !! साधु !!! कीदृशी लालित्यपूर्णा पदयोजना । "कवयामि वयामि यामि"--धन्योSसि त्वम् । अहमपि आत्मानं धन्यं मन्ये, यस्य राज्ये तन्तुवायाः, कुम्भकाराः अयस्काराः शिल्पिनः श्रमिकाः अपि ललितां काव्यरचनां कुर्वन्ति ।"

(तन्तुवायं प्रति) "भो कविवर ! गृहाण पुष्कलं स्वर्णमयं पारितोषिकम् । निजम् आवासम् च प्रयाहि । (मन्त्रिणं प्रति) पण्डितः मम राजभवने वासयितव्यः, यावद् अपरा व्यवस्था न भवति ।"

(राजा तन्तुवायाय स्वर्णमुद्रा अर्पयति । तन्तुवायः पारितोषिकं प्राप्य प्रसन्नवदनः राजानम् अभिवाद्य गृहं प्रयाति ।)

www.facebook.com/kathamanzari
=====================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
(10.) डॉ. प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(11.) संवाद
www.facebook.com/somwad
(12.) दिल से
www.facebook.com/dilorshayari
(13.) आर्य समाज
www.facebook.com/satyasanatanvaidik
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari