गुरुवार, 13 अक्तूबर 2016

महर्षि पतञ्जलिः

!!!---: महर्षि पतञ्जलिः :---!!!
=============================

महर्षि पतञ्जलिः महान् पुरुषः आसीत् । तस्य ख्यातिः "महाभाष्यम्" इति ग्रन्थस्य कारणात् विश्वविज्ञाता ।

पतञ्जलिकृतं महाभाष्यम् इति "पातञ्जल-महाभाष्यम्" । वैयाकरणः महर्षिः पाणिनिः अद्वितीयः व्याकरणकर्त्ता आसीत् ।

तस्य व्याकरणग्रन्थस्य नाम अष्टाध्यायी अस्ति । विश्वस्य सर्वासु भाषासु ये विद्वांसः भाषाविज्ञानिनः सन्ति ते सर्वे कथयन्ति स्वीकुर्वन्ति च यत् "अष्टाध्यायी" विश्वस्य सर्वश्रेष्ठः व्याकरण-ग्रन्थः ।

किन्तु अयं ग्रन्थः सूत्रबद्धः । अतः एतेषां सूत्राणां भाष्यस्य विश्लेषणम् आवश्यकम् । तदा एव एषः ग्रन्थः बोधगम्यः भवितुम् अर्हति । महर्षिः पतञ्जलिः "व्याकरण-महाभाष्यम्" इति नाम्ना महद्ग्रन्थम् अलिखत् ।

महर्षिः पतञ्जलिः चिदम्बरप्रदेशे गोणिकागृहे जातः । अऩ्ये केचित् विद्वांसः कथयन्ति यत् तस्य जन्मभूमिः पाटलिपुत्रः अस्ति ।

अत्र चिदम्बरप्रदेशे गोणिका पुत्रप्राप्त्यर्थं नित्यं प्रार्थयामास । नदी-नौ-संयोगः जातः । एकदा सा सती-साध्वी नारी गोणिका नद्यां स्नानं कृत्वा सूर्याय अर्घ्यं प्रददौ । अर्घ्य-सम्प्रदान-काले एकवारं बद्धाञ्जलिमध्ये एकः सर्पः आगतः । गोणिका कम्पमाना वेपथुमती च जाता, किन्तु धैर्यं धृत्वा प्रश्नं पप्रच्छ ।

गोणिका---को भवान् ?
शेषनागः---सप्पोSहम् ।

गोणिका---रेफः क्व गतः ?
शेषनागः----त्वया अपहृतः । (तव मुखे) ।



तस्मिन् एव काले गृहे गोणिका एकं पुत्रं जनितवती । गोणिका इमं पुत्रं पतञ्जलिः इति सम्बोधितवती । एषा तु जनश्रुतिः ।

महर्षिः पतञ्जलिः बाल्यकालात् एव विचक्षणः , अनुपम-प्रतिभा-सम्पन्नः आसीत् । अल्पसमये एव सः व्याकरणशास्त्रे पारङ्गतः , उत्तीर्णः, स्नातकः, तीर्थात्तीर्थंगतः । सहस्रशः व्याकरणजिज्ञासवः तस्य सन्निकटे सश्रद्धम् आगच्छन्ति स्म ।

समयं समालोक्य स भाष्यरचनां कर्तुम् प्रवृत्तः । सर्वे छात्राः , विद्यार्थिनः, विद्याध्यायिनः विजिज्ञासवः सर्वे समुपस्थिताः ।

महर्षिः पतञ्जलिः घोषितवान् । एवम् । अहं भाष्यम् करिष्यामि । किन्तु अहम् जवनिका-पटान्तरितः भाष्यं करिष्यामि ।

भवन्तः दत्तकर्णाः सावधानम् एकाग्रचित्तं शृण्वन्तु, , लिखन्तु, स्मरन्तु च । पाणिनिसूत्रव्याख्यानकाले कोSपि छात्रः मां द्रष्टुं न आगच्छेत् । अन्यथा अनिष्टं भविष्यति ।

इति उक्त्वा पतञ्जलिः यवनिकान्तरितः व्याख्यानं भाष्यं च आरब्धवान् । प्रायः महाभाष्यसमाप्तिकाले एकः शिष्यः उत्सुकतावशात् तम् अद्राक्षीत्, तदा तस्य रूपं शेषनागवत् आसीत् । पतञ्जलिः शेषनागवत् ब्रुवन् आसीत् ।

यथातथा महाभाष्यं पूर्णम् अभूत् । चन्द्रगुप्त इति नाम्ना ख्यातः शिष्यः बहुदुःखतः पातञ्जलं महाभाष्यं संरक्षितवान् ।

महर्षिः पतञ्जलिः वैयाकरणः, चिकित्सकः, योगी चासीत् । "पातञ्जलयोगदर्शनम्" इति ग्रन्थः तेन रचितः सुप्रसिद्धः योगदर्शनग्रन्थः । पतञ्जलिः पृथिवीतले एकवारम् एव अवतरति, द्विवारं नहि ।

उक्तञ्च----

"योगेन चित्तस्य पदेन वाचाम्,
मलं शरीरस्य च वैद्यकेन ।
योSपाकरोत्तं प्रवरं मुनीनाम्,
पतञ्जलिं प्राञ्जलिरानतोSस्मि ।।


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

1 टिप्पणी: