रविवार, 11 सितंबर 2016

मृच्छकटिकम्

!!!---: मृच्छकटिकम् :---!!!
=========================

संस्कृतवाङ्मये मृच्छकटिकम् प्राचीननाटकेषु मुख्यतमम् । शूद्रकेण लिखितम् संस्कृतनाटकम् अस्ति। नाटकेषु प्रकरणवर्गे इदंनाटकम् अन्वेति । अस्मिन् दश अङ्काः वर्तन्ते। अस्मिन् नाटके कान्यपि कपोलकल्पितानि कृतकता च न भवतः । स्वभावोक्त्यलङ्कार इव सहजसुन्दराणि दृश्यानि भवन्ति । यथा विशाखदत्तस्य मुद्राराक्षसम् वर्तते तथैव वस्तुवद्रचनया शोभते ।

मृच्छकटिकं इति नाटकस्यादौ शुद्रकस्य परिचयः यथा वर्णितोऽस्ति, तदनुसारेण शूद्रकः हस्तिशास्त्रेषु प्रवीणः आसीत् । अनेन शिवस्यानुग्रहेण ज्ञानं प्राप्तं, विधिना चाश्वमेधयज्ञं कृतवान् । राज्यसिंहासने पुत्रं प्रतिष्ठाप्य शतायुः शूद्रकोऽग्निं प्रविष्टः । अग्निप्रवेशस्य कथा केनाप्यन्येन नाटकेऽस्मिन् सन्निवेशितेति प्रतीयते, यतो हि लेखको भावीक्रियायाः प्रयोगः स्वात्मनि कर्तुं नार्हति ।

मृच्छकटिकस्य कथाभागः
=====================

अत्र रुपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रणं कृतं, परं तेनैव सह तात्कालिकसमाजस्य चित्रमप्यङ्कितम्, एतत्प्रकरणगतकथा भागद्वयेविभक्ता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनीषति, द्वितीयश्च भाग आर्थकस्य राज्यप्राप्तिं प्रगुणयति । प्रथर्मोऽशो भासकृतस्य दरिद्रचारुदत्तनामकस्य रुपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीर्योऽशश्च कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्यं स्फुटम् । दशाङ्कनिबध्देऽत्र रुपके कविना क्वचन गुणवति वदान्यतया दरिद्रे च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा, शकारस्य तत्रानुरागोदयस्तस्यामनुरगमनवदधत्यां द्वेषस्तन्मूला तद्वधप्रवृत्तिः, ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः, भाग्यवशात्तदुज्जीवनम्, राज्यपरिवर्त्तनेनार्यकस्य राज्यप्राप्तिश्चारुदत्तवसन्तसेनयोर्विवाहश्छेत्यादयोऽर्था निपुणं वर्णिताः ।

चरित्राणि
===============

वसन्तसेना उज्जयिन्या वेश्या याऽत्र प्रधाननायिका । वेश्यापि सा प्रेम कर्तुं जानाति, मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वधप्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः, परं स्त्रियामपेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते । धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसहनोद्यता । सा हि सपतिकलङ्कप्रक्षालनाय स्वईयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामाभरणानां परिवर्त्ते दातुमुद्यता । शकारो नितान्तगर्वी चारुदत्तस्याकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठं मर्दयति तद्देषं च चारुदत्तस्य शिरसि न्यस्यति, तथापि चारुदत्तस्तस्मै क्षमां ददाति ।

अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रुपकमिदं सजीवमिव सम्पन्नम् ।
अत्रत्यानि पात्राणि न कल्पितस्वरुपाण्यपि तु सर्वत्र सुलभानीति विशेषः ।
तत्कालिकी समाजदशा शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तत्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति ।

तस्मिन्समये उज्जयिनी भारतस्य समृध्दा नगरी, फलतस्तत्र चौर्यद्यूतयोः प्ररुढः प्रचारोऽवर्त्तत । वेश्यालयानां प्राचुर्यं विलासितायाः प्रमाणम् ।

मनुस्मृतिर्न्यायालयेष्वाद्रियमाणाऽऽसीत् । ब्राह्मणा अपि व्यापारार्जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणां सहयोगमपेक्ष्यैव कार्यं चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमीयन्त यत्र रोगिणां शुश्रुषाऽपि व्यधीयत । क्रितदासप्रथाऽवर्त्तत । राजशक्तेर्दुर्बलतायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्त्तनं दृश्यते । बौध्दधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् ।

शैली
===========

शूद्रकस्य शैली सरला, प्रसाद-गुण- गुम्फिता चास्ति । लम्बायमानस्य वृत्तस्य प्रयोगोऽतिन्यून एव । नूतनो भावः, अभिनवोऽर्थः स्थले-स्थले प्राप्यते । नाटकस्य मुख्यो रसः श्रृंङ्गारः । वर्षर्तुवर्णनं शूद्रकेण कियन्मनोहरं विशदीकृतमिति न कदापि विस्मर्तव्यम् । विविधाः चमत्कृतसूक्तयः नाटके दरीदृश्यन्ते, कविना न्यायालयस्य वर्णनं कियत्सुन्दरं कृतमिति दृश्यताम् –

"चिन्तासक्तनिमग्नमन्त्रिस्सलिलं, दूतोर्मिशङ्काकुलम्
पर्यन्तस्थितचारनक्रमकरं, नागाश्वसिंहाश्रयात् ।
नानावासक- कङ्क – पक्षिरुचिरं कायस्थसर्वास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥"

अनेन प्रकारेण शूद्रकः मृच्छकटिकनाटके यत्र तत्र समाजस्य, राज्ञः, तथा राजकर्मकस्य, वेश्यायाः चौरस्य च एतादृशं चित्रं प्रतौति यत् नाटकपठनेन तत्कालीनसमाजस्य चित्रम् अस्माकं सम्मुखे आलिखित-चित्रमिवावभासते । किमधिकं मृच्छकटिकनाटकं सफलं समाजिकं नाटकमिति न केषाञ्चित् विमतिः ।

शूद्रकस्य काव्यशैली सरलतमा, दीर्घः समासो गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरुकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रुपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । हासप्रयोगेऽपि कवेरस्य साफल्यम । यज्ञोपवीतस्योपयोगे विचार्यमाणे- यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्विधस्य, कुतः-

"एतेन मापयति भित्तिषु कर्ममार्गा-
नेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनञ्च ॥"

सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्कारित्वमक्षुण्णमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति ।

कथा
========

एषा चारुदत्तस्य कथा अस्ति। सः नटीम् वसन्तसेनाम् कामयति। परम् एकः राजसभास्थः अपि ताम् प्रलुभ्यति। एषा कथा हास्या बोधना चास्ति।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें