शनिवार, 24 सितंबर 2016

संस्कृतशिक्षया कौशलविकासः संभवोSस्ति

!!!---: संस्कृतशिक्षया कौशलविकासः संभवोSस्ति :---!!!
===================================

संस्कृत-भाषायाः महत्त्वं सर्वविदितम् एव अस्ति । प्राचीनकाले इयं भाषा व्यावहारिकी भाषा आसीत् , अर्थात् सामान्य-जनाः अपि संस्कृतेन संभाषन्ते स्म । तस्मिन् काले भारतवर्षे सर्वरूपेण विकसितम् आसीत् । एतेन एव कारणेन भारतवर्षं विश्वगुरुः इति अभिधीयते स्म । यथा प्राचीनकाले भारते संस्कृते कौशलस्य विकासः अभवत्, सम्प्रत्यपि संभवेत् । कौशलविकासस्य अभिप्रायः अस्ति यत् विशेषयन्त्रनिर्माणविधिः, येन मानवसमाजस्य विभिन्नप्रकारेण लाभो भवेत् । विज्ञाने सर्वत्र आविष्काराः भारते अभवन् । तद्यथा---

शल्यचिकित्सा, अंगप्रत्यारोपणम्, औषधीय-विज्ञानम्, वनस्पतिविज्ञानम्, शरीररक्षा, कृषिविज्ञानम्, पशुचिकित्सा, यन्त्रनिर्माणविधिः, खगोलविज्ञानम्, संगीतविज्ञानम्, गणितशास्त्रम्, भौतिकविज्ञानम्, रसायनशास्त्रम्, जीवविज्ञानम्, आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, भूविज्ञानम्, नक्षत्रविज्ञानम्, धातुविज्ञानम्, रत्नविज्ञानम्, विमानविज्ञानम्, वास्तुविज्ञानम्, शिल्पविज्ञानम्, सैन्यविज्ञानम् च भारतस्य महती विद्या आसीत् । एतानि भारतस्य महत् कौशलानि आसन् । एतेषां कौशलानां विकासः संस्कृतेन भारते सम्प्रत्यपि संभवोSस्ति ।

इदं ज्ञातव्यम् अस्ति यत् कौशलानां विकासाय कापि भाषा बाधा नास्ति । यदि सा भाषा मातृभाषा भवेत् तर्हि कौशलानां विकासः अतिशीघ्रतया संभवेत् । एतस्य उदाहरणं भारते अस्ति—ए.प.जे.अब्दुल-कलामः । अन्य देशे जापानदेशे जापानी-भाषायामेव कौशलानां विकासः भवति । जर्मनी-देशे , फ्रांसदेशे, रूसदेशे, चीनदेशे, स्वीडनदेशे, डेनमार्कदेशेSपि च तद्-तद् देशे तस्यां भाषायामेव कौशलानां विकासः अभवत् भवति च , तर्हि संस्कृतभाषायां कौशलानां विकासः कथं न भवेत् । भवेदेव । यदा भारतदेशः परतन्त्रः आसीत् तदा अस्माकं विकासः अवरुद्धः जातः , किन्तु तस्मिन् कालेSपि कश्चित् विकासः अवश्यमेव अभवत् ।

भवन्तः जानन्ति किम् विमानस्य आविष्कारः भारते सर्वप्रथमम् अभवत् । इतिहासे तु अमेरीकीयस्य राबर्ट-बन्धोः नाम प्रसिद्धः अस्ति, किन्तु इदं सत्यं नास्ति । राबर्ट-बन्धोः 10 वर्ष पूर्वमेव भारते महाराष्ट्रीयेण श्रीशिवकरबापू जी तलपडे-महोदयेन विमानम् आविष्कृतम् । एतस्य प्रदर्शनं 1865 तमे ख्रीष्टाब्दे मुम्बई-नगरे अभवत् । अस्य इतिहासः वर्तते । अनयोः पूर्वयोः भारते विमानयन्त्रस्य आविष्कारः ऋषिः भारद्वाजः कृतवान् । तस्य कृतिः ”विमानशास्त्रम्” सम्प्रति उपलब्धयते । अस्य उल्लेखः ऋषिणा दयानन्देन स्वरचितायाम् ”ऋग्वेदादिभाष्यभूमिकायाम्“ कृतः । को ना जानाति यत् भारते पुष्पकविमानस्य सम्बन्धे । श्रीरामः यदा रावणं विजितवान्, तदा श्रीरामः, लक्ष्मणः, सीता च पुष्पकविमाने स्थित्वा अयोध्यायाम् आगतवन्तः । प्राचीने भारते ऋषिः नारदः सर्वत्र निर्बाधरूपेण परिभ्रमति स्म । तस्य पार्श्वे विमानयन्त्रम् आसीत् । को न जानाति यत् भारते एव शून्यस्य, दशलमपद्धतेः, गणिते पाई-इत्यस्य आविष्काराः अभवन् । ये जनाः कथयन्ति यत् गतेः नियमानाम् आविष्कारः न्यूटन इति कृतवान्, ते नैव सम्यक् जानन्ति, ते तु त्रुटौ वर्तन्ते । सत्यम् एदम् अस्ति यत् गतेः नियमानाम् आविष्कारा भारते पूर्वमेव वराहमिहिर-आचार्येण कृतः ।

भारते सामान्यजनाः अपि कौशलानाम् अधिष्ठातारः आसन् । तद्यथा---नापिताः इति शल्यचिकित्सकाः आसन् । प्राचीने भारते नापिताः एव शिशूनाम् जन्म कारयन्ति स्म , सामान्य व्रणानाम् चिकित्सा ते नापिताः एव कुर्वन्ति स्म । इत्थमेव कुम्भकाराः विशेषमृत्तिकया कुम्भम् निर्मान्ति स्म । तेन भिन्नेन कुम्भेन भोजनं पचति, जलं स्थापयति, अन्नभण्डारं कारयन्ति स्म । इयं विधा विशेषविधा अस्ति । न अन्य जनः ईदृशं कर्तुम् शक्नोति । इत्थमेव लौहकाराः, स्वर्णकाराः, चर्मकाराः, काष्छकाराः, तन्तुवायाः, कृषकाः इत्यादयः महान्तः वैज्ञानिकाः आसन् । श्रीमान् राजीवदीक्षित महोदयस्य कथनं वर्तते यत् एते जनाः भारतस्य महान् सेवकाः आसन् । अतः भारते सम्प्रत्यपि संस्कृतेन कौशलानां विकासः भवत्येव इति न कापि विप्रतिपत्तिः ।



अस्याः भाषायाः वैज्ञानिकातां विचार्य एव संगणक-विशेषज्ञाः कथयन्ति यत् संस्कृतमेव संगणकस्य कृते सर्वोत्तमा भाषा विद्यते । अमेरीकास्थिते नासा संघे संस्कृतभाषायाम् शोधः प्रचलति । अमेरीका, इंग्लैण्ड, आस्ट्रेलिया आदि देशेषु विद्यालयेषु संस्कृतभाषा अनिवार्या अस्ति । अतः इयं वेला आगता अस्ति यत् भारतेSपि संस्कृतस्य वर्द्धनं स्यात् ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें