मंगलवार, 5 जुलाई 2016

वीरः बालकः वसुमित्रः

!!!---: वीरः बालकः वसुमित्रः :---!!!
==========================

प्राचीनसमये शुंग-राजवंशस्य प्रथमः सम्र्ाट् वीरः पुष्यमित्रः आसीत् । सुदूर-पर्यन्तम् तस्य राज्यम् विस्तृतम् आसीत् । यूनानी शत्रवः प्रहर्त्तुम् प्रस्तुताः आसन् । ते पुष्यमित्रस्य राज्यम् प्राविशन् । ते आक्रमणम् अपि अकुर्वन् , परन्तु पुष्यमित्रः स्वबुद्ध्या तान् अताडयत् दूरीकृतवान् च । शत्रूणाम् शक्तिम् सः छिन्नाम् भिन्नाम् चाकरोत् । तथापि ते धूर्ताः सीमावर्तिषु ग्रामेषु अपहरणम् चौरं कर्म च कुर्वन्ति स्म ।

पुष्यमित्रः राजगुरुम् अस्मिन् विषये विचाराय अकथयत् । राजगुरुः अवदत्---"राजन् ! अश्वमेधयज्ञम् कुरु ।"

सम्राट् प्रत्युदतरत्---"गुरुदेव ! अश्वमेधयज्ञे अश्वस्य रक्षां कः करिष्यति ?"

"युवराजे सति का चिन्ता ? अग्निमित्रम् युवराजम् अश्वरक्षकम् नियुक्तम् कुरु ।"

अन्यमनस्कः राजा अवदत्---"गुरुदेव ! सः अयोग्यः एव अस्ति । सः तु सदा मत्तः विलासी भूत्वा भ्रमति । तस्य संगीते नृत्ये च रुचिः अस्ति । वीरतया पराक्रमेण च तस्य किम् प्रयोजनम् ?"

राजगुरुः क्रुद्धः अभवत् । तदैव राजगुरुः राजा च वसुमित्रम् अपश्यताम् पुरतः ।
सः किशोरः वसुमित्रः गौरवर्णः सुन्दरः च आसीत् । सः अग्निमित्रस्य पुत्रः आसीत् । क्रोधेन तस्य मुखम् आरक्तम् अभवत् । सः खड्गहस्तः आसीत् । सः कायरस्य अग्निमित्रस्य पुत्रः आसीत् ।

राजगुरुम् राजानम् चावदत्---"हे पितामह ! कथम् चिन्तयति भवान् ? अहम् यज्ञस्य अश्वं रक्षिष्यामि । पितुः अभावे पौत्रम् आज्ञापयतु भवान् ।"

"पौत्र ! त्वम् अधुना बालकः असि । कथम् यूनानीशत्रुभिः सह युद्धम् करिष्यसि ?"
राजगुरुः राजा चावदताम् ।

"अहम् बालकः अस्मि नूनम् पितामह, परन्तु लवकुशाभ्याम् वृद्धतरः अस्मि । तयोः कथाम् अपि भवतः श्रुतवान् । तौ महत्तरान् वीरान् सैनिकान् पराजितवन्तौ ।"

सम्राट् अतीव प्रसन्नः अभवत् । सः अवदत्---"पौत्र, त्वं शुंगवंशस्य गौरवशाली सुपुत्र असि ।"

सम्राट् अश्वमेध-यज्ञस्य घोषणाम् अकरोत् । सेना सज्जिता जाता । महाराज्ञी किशोरस्य वसुमित्रस्य मस्तके तिलकं कृतवती । तस्मिन् पुष्पवर्षा अभवत् । सः सेनापतिः भूत्वा अगच्छत् । तेन सह शत संख्यकाः वीराः सैनिकाः आसन् । सः अश्वम् गृहीत्वा पाटलिपुत्रात् प्राचलत् ।

प्रारम्भे उत्तर-पश्चिमस्याम् दिशायाम् अश्वः अगच्छत् । मार्गे भिन्न-भिन्न-राज्यानाम् राजानः वसुमित्रस्य स्वागतम् कृत्वा बहुमूल्यान् उपहारान् प्रायच्छन् । वसुमित्रः सर्वान् विजित्य अग्रे अग्रे अगच्छत् । यूनानी-शत्रवः भीताः पश्चात् गताः ।ते सिन्धुपारम् अगच्छन् ।

तदा नायकाः वसुमित्रम् अकथयन्---"सेनापते, सर्वम् क्षेत्रम् म्लेच्छैः मुक्तम् अभवत् । अधुना राजनगरम् प्रति गमनम् उचितम् ।"

वसुमित्रः अवदत्---"यूनानी-शत्रूणाम् सेना तस्मिन् तटे एकत्री भूता अस्ति । सा सेना जेतव्या अस्ति ।"

यज्ञस्य अश्वः पारम् अगच्छत् । यूनानी-सैनिकाः तम् बद्धम् कृतवन्तः । रणवाद्यानि गूंजितानि । महद् युद्धम् अभवत् । शत्रवः पराजिताः अभवन् । वसुमित्रः विजय-ध्वजारोहणम् कृतवान् । सः विजयी वसुमित्रः अश्वम् गृहीत्वा राजनगरम् प्रत्यागच्छत् ।

वसुमित्रस्य वंशजाः शत वर्षाणि राज्यम् अकुर्वन् ।




==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें