गुरुवार, 2 जून 2016

दायजस्य कुप्रथा

!!!---: दायजस्य कुप्रथा :---!!!
=================================

अद्य अस्माकं समाजे अनेकाः कुप्रथाः प्रचलिताः सन्ति । तासु कुप्रथासु दहेजस्य विकटतमा वर्तते । समाजे अस्याः कुप्रथायाः कारणेन भयंकराः हृदयविदारकाश्च परिणामाः दृश्यन्ते ।

अयं दहेजशब्दः संस्कृतस्य दायजशब्दस्य एव विकारः प्रतीयते । दायं पैतृकं धन कथ्यते । दायात् जातं धनं दायजं भवति । एतद् धनम् कन्यापक्षीयैः जनैः निजकन्यायाः विवाहस्य अवसरे प्रदीयते ।

प्राचीनकाले कन्यापक्षीयाः जनाः प्रसन्नतया, स्नेहेन, सुखेन, स्वेच्छया, च दायजम् उपहाररूपेण ददति स्म । वरकन्ययोः वैवाहिकं जीवनं सुखमयं स्याद् इति कामनया दीयते स्म । प्राक् वरपक्षीयेषु दायजस्य लोभः न आसीत् ।

परम् अधुना वरपक्षीयाः प्रायः लोभिनः वर्तन्ते । ते निजपुत्रस्य कृते दायजम् एव प्रमुखं मन्यन्ते , न तु कन्यायाः गुणान् । याः सुशीलाः गुणवत्यश्च कन्यकाः प्रभूतं दायजं मानयन्ति, ताः श्वशुरालयेषु भूशं ताड्यन्ते, बहुविधैश्च पीड्यन्ते । काश्चित् स्टोवाग्निना मृत्तैलेन वा दाह्यन्ते, काश्चित् पशुमारं मार्यन्ते, काश्चित् धनाभावात् धनाढ्यैः वृद्धैः सह विवाहिताः असमये वैधव्यं प्राप्नुवन्ति ।

समाचारपत्रेषु नवविवाहितानां युवतीनां विषये एतादृश्यः वार्ताः प्रायः पठ्यन्ते, येन हृदयं दूयते । इयं कुप्रथा शीघ्रं दूरीभवेत् इति यत्नाः सर्वैः कर्त्तव्याः । शासनेन लोभिनः दायजेच्छुकाः च वरपक्षीयाः तीव्रदण्डेन दण्डनीयाः स्युः । दायजं च अवैधम् घोषणीयम् । ये युवकाः दायजम् अगृहीत्वा विवाहं कुर्वन्ति , तेषां समाजेन शासनेन च सम्मानं करणीयम् ।



निर्धनानां परं सुयोग्यानां कन्यकानां विवाहस्य प्रबन्धोपि राज्यस्य समाजकल्याणविभागेन करणीयः । यदि वयं सर्वे मिलित्वा अस्याः दहेजप्रथायाः उन्मूलनं कुर्मः तदा समाजं बालिकायाः जन्मकालेपि जनाः तथैव प्रसन्नाः भविष्यन्ति यथा पुत्रस्य जन्मकाले । अनेन समाजे महिलानां स्थितिः पुनरेकदा गौरवपूर्णा भविष्यति ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें