शनिवार, 18 जून 2016

दीपोत्सवः

!!!---: दीपोत्सवः :---!!!
======================

अस्माकं समारोहेषु दीपोत्सवः विशिष्टः । दीपोत्सवः सामान्यतः दीपावली दीवाली वा नाम्ना ज्ञायते । प्रकाशोत्सवः अयं बालानां चित्तानि हरति । गृहेषु, हट्टेषु, चत्वरेषु, आपणेषु सर्वत्र दीपानां मालाः शोभन्ते ।

कार्तिकमासस्य अमावस्यायां तिथौ प्रतिवर्षं भारतीया इमम् उत्सवं समायोजयन्ति । शारदीयः अयम् उत्सवः । वर्षायाम् ऋतौ सर्वत्र वर्षायाः प्रभावेण अस्वच्छता. कीटपतंगानां प्रसारश्च भवति । यदा शरद् आयाति तदा जनाः स्वगृहं परिसरं च स्वच्छं कुर्वन्ति । ते गृहाणि सधया लिम्पन्ति । कपाटगवाक्षादीन् रञ्जयन्ति । इतस्ततः क्षिप्तम् अपद्रव्यम् अपसारयन्ति । सर्वत्र निर्मलता निवसति ।

नवं वस्त्रं मिष्टान्नं च लब्ध्वा बाला मुदिताः भवन्ति । ते पटाखविस्फोटं कृत्वा आनन्दमनुभवन्ति । जनाः परस्परं शुभकामनां प्रकटयन्ति । सर्वत्र बन्धुभावः विराजते ।

रावणवधानन्तरं रामचन्द्रस्य अयोध्यागमने प्रथमः दीपोत्सवः आयोजितः इति जनश्रुतिः । तदा प्रभृति वयम् अस्य आयोजनं कुर्मः । अस्मिन् पर्वणि जनाः रात्रौ स्व स्वगृहं दीपमालिकया अलङ्कुर्वन्ति । धनस्य देवीं लक्ष्मीं पूजयन्ति । निर्धनतां निस्सारयन्ति । इयं रात्रिः सुखरात्रिः इति नाम्ना विख्याता । मिथिलायां बंगप्रदेशे च केचन देवीं कालिकां पूजयन्ति ।

वर्षाकाले वृद्धिम् उपगतानां कीटपतङ्गानां पुरा तैलवर्तिकाभिः विनाशो भवति स्म । तेन पर्यावरणं शुद्धं भवति स्म । अद्य तु वयं मोमवर्तिकानां विद्युद्दीपानां च प्रयोगं कुर्मः । उल्लासप्रकटनाय पटाखाविस्फोटः च भवति । अनेन वातावरणे दूषितः पदार्थः वर्धते । कीटा न नश्यन्ति । वातावरणं च विषयुक्तं भवति । ध्वनिप्रदूषणं चापि वर्धते । अतः सावधानेन भवितव्यम् । स्वरक्षणाय पर्यावरणरक्षणं परमं कर्त्तव्यम् ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें