शनिवार, 25 जून 2016

मक्षिका-चोषकस्य कथा

!!!---: मक्षिका-चोषकस्य कथा :---!!!
============================

एकः कृपणः आसीत् । तस्य नाम सूमः आसीत् । कृपणता मितव्ययिता नास्ति । कृपणता अथवा कार्पण्यं मूर्खत्वम् अस्ति । मितव्ययिता अनुशासिता जीवनशैली । पणव्यये यः कदर्थे स्थितः सः कृपणः । कृपणः एव कदर्थः । "कद्" भर्त्सनार्थकत्वं धारयति । सूमः निर्धनः नासीत्, किन्तु स भर्तृहरि-श्लोकस्य उदाहरणम् आसीत्---

"दानं भोगो नाशः तिस्रो गतयो वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।।"

एकदा स रात्रौ बहिर्गतः । बहुदूरं गत्वा तेन स्मृतम्---गृहे यः दीपः ज्वलन् आसीत् स तु न निर्वापितः । तैलव्ययं संस्मृत्य तस्य शरीरस्थ शोणित-व्ययवत् दुःखं जागरितम् ।

सः अचिन्तयत्---"दीपं निर्वाप्य अहं पुनः आयास्यामि ।" इत्थं विचिन्तयन् सः स्वगृहं प्रत्यागतः ।

सूमः दृष्टवान्---द्वारस्य कपाटौ सम्पुटितौ । दीर्घस्वरेण स भृत्यम् आह्वयत् ।

गृहसेवकः उवाच---"किमर्थं भवान् प्रत्यागतः । बहिःस्थ एव भवान् कथयतु, किमर्थं प्रत्यागतः । कपाटयोः समुद्घाटनेन व्यर्थम् एव कपाटकीलकं घृष्टं भविष्यति ।"

सूमः प्रसन्नः जातः । यथा हरिस्तथा हरः । यथा स्वामी तता सेवकः । सूमः अब्रवीत्----"त्वया सत्यं कथितम् । अहं प्रत्यागतः । कारणं शृणु । मया दीपनिर्वापणं विस्मृतम् । एतदर्थम् एव अहं प्रत्यागतः अस्मि ।"

गृहसेवकः प्रत्युवाच---"दीपो मया निर्वापितः यदा भवान् निर्गतः । परम् इदानीम् परं दुःखस्य कारणम् उपस्थितम् अस्ति । भवतः उपानहौ (पदत्राणद्वयम्) प्रत्यागमने व्यर्थमेव घृष्टौ ।"

गृहसेवकस्य वचनं श्रुत्वा गृहस्वामी सूम आनन्दीभूतः । अत्र चिन्ता न करणीया । अहम् उपानहौ हस्ते गृहीत्वा नग्नचरणः इह आगतः अस्मि । पुनः स यात्रापथि गतः । तदनन्तरम् अन्यस्मिन् गृहे यः गृहसेवकः निवसति स्म स वातायनतः सर्वं श्रुत्वा कथितवान्---"मम गृहस्वामी तवगृहस्वामि-तुलनीयां कनीयान् । कथम् ? सः अपृच्छत् । अपरः सेवकः कथयति----

मम स्वामिनः नाम मक्षिकाचोषकः । स घृतस्य लघु-व्यापारी अस्ति । घटे घृतं पूरयित्वा सः नगरं गच्छति । तत्र घृतं विक्रीणाति पुनरागच्छति ।


एकदा घृत-घट-सहितः स नगर-गमन-समये श्रान्तः जातः । ग्रीष्मर्तुः आसीत् । वृक्षतले छायायां स विश्रान्तः । तस्मिन्नेव काले एका मक्षिका घृतघटे आगता । घृल्लेपन-कारणात् सा पुनः उड्डयितुं न समर्था ।

मम स्वामी मक्षिकां घटात् निष्कासितवान् । पुनः तर्जन्यङ्गुष्ठाङ्गुल्योः मध्ये आदाय बलेन घर्षितवान् । घृतबिन्दु-सहितम् तस्याः स्वशरीर-रसम् अपि निष्यन्दितम् । ततः अपि मम स्वामी शङ्काग्रस्तः अतिष्ठत् । सम्भवेत् यत् घृतस्य बिन्दुकणार्धम् अपि मक्षिका-देहे अवशिष्टं स्यात् । अतः मनसि एकः उपायः समागतः । सः मक्षिकां मुखे स्थापयित्वा तस्याः सर्वं रसं चोषितवान् । तदा प्रभृति सः "मक्षिकाचोषिकः" इति नाम्ना ज्ञायते । अधुना उभयः तुलनीयः कः स्यात् कृपणतरः ?




==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें