रविवार, 31 जनवरी 2016

सिंहकारकाणां कथा

कस्मिंश्चित् नगरे चत्वारः पुरुषाः मित्रभावेन वसन्ति स्म । तेषु त्रयः शास्त्रेषु निपुणाः आसन्, किन्तु ते व्यवहारशून्याः आसन् । चतुर्थः व्यवहारनिपुणः किन्तु शास्त्राणां ज्ञानेन रहित एव आसीत् ।

एकदा ते सर्वे मिलित्वा अचिन्तयन्---"अस्माकं विद्यायाः कः लाभः यदि देशान्तरं गत्वा अस्य उपार्जनं न क्रियते । अतः वयं धन-अर्जनार्थं पूर्वदेशं गच्छामः" इति ।

एवं निश्चित्य ते सर्वे पुरुषाः पूर्वदेशं प्रति अचलन् । मार्गे एकस्मिन् दुर्गमवने ते कस्यचित् मृतस्य सिंहस्य अस्थीनि अपश्यन् । तानि अस्थीनि दृष्ट्वा एकः अवदत्---"अयं कश्चित् जीवः मृतः तिष्ठति । अहं निजविद्यायाः प्रभावेण अस्थिनां सञ्चयं करोमि ।" एवमुक्त्वा स सत्वरं तस्य मृत-जीवस्य अस्थि-सञ्चयमकरोत् ।
                             www.vaidiksanskrit.com
तदा द्वितीयोवदत्---"अहं निजविद्यायाः प्रभावेण अस्मिन् चर्मणः मांसस्य रुधिरस्य च संयोजनं करोमि ।" इत्युक्त्वा सोSपि निजशास्त्रज्ञानस्य प्रभावेण सत्वरं तथाSकरोत् ।

तदनन्तरं तृतीयोSवदत्---"अहं निजविद्यायाः प्रभावेण अस्मिन् शरीरे जीवनस्य सञ्चारं करोमि" इति । स यदा तस्मिन् शरीरे जीवनस्य सञ्चारं कर्तुम् उद्यतोSभवत् तदा चतुर्थोSवदत्---"भ्रातः ! तिष्ठतु भवान् । एषः सिंहः क्रियते । यदि त्वम् एनम् सजीवं करोषि तदा अयम् अस्मान् हत्वा खादिष्यति । अतः एवं न कुरु ।"

तस्य बुद्धिमतः वचनं श्रुत्वा तृतीयः पुनरवदत्--"धिङ् मूर्खः !!! अहं निजविद्यां विफलां न करिष्यामि" इति ।

एतत् श्रुत्वा चतुर्थः पुनरवदत्--"तर्हि प्रतीक्षां कुरु, यावदहं वृक्षम् आरोहामि ।"

यदा चतुर्थः पुरुषः वृक्षमारोहत्, तदा तृतीयः शीघ्रं तं सिंहं सजीवमकरोत् । जीवनं प्राप्य स सिंहः सत्वरम् उत्थाय तान् त्रीनेव अहन् । चतुर्थश्च वृक्षाद् अवतीर्य निजगृहम् अगच्छत् । अत एव नीतिकाराः कथयन्ति---

"वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ।।"

====================================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें