शुक्रवार, 15 जनवरी 2016

चतुरः शृगालः

!!!---: चतुरः शृगाल :---!!!
=======================

कस्मिंश्चिद् वने एकः महाचतुरकः नाम शृगालः आसीत् । एकदा स वने एकं मृतं महागजम् अपश्यत् । स तस्य कठिनं त्वचं भेत्तुम् अयतत, परं सफलो नाभवत् । अत्रान्तरे कश्चित् सिंहः तत्रागच्छत् । सिंहं दृष्ट्वा महाचतुरकः सविनयम् अवदत्--- "स्वामिन् ! अहं तव सेवकः तवैव भोजनार्थं गजमिमं रक्षामि । अधुना स्वामी इमं भक्षयतु ।" सिंहोSपि तं शृगालम् एवं प्रणतं विलोक्य अकथयत्---"अन्येन हतं जीवं नाहं खादामि । अतः अहम् इमं गजं तुभ्यमेव यच्छामि ।" इति उक्त्वा सिंहः ततः अगच्छत् ।

सिंहे गते तत्र कश्चित् व्याघ्रः आगच्छत् । तं दष्ट्वा शृगालः अचिन्तयत्---"सिंहस्तु विनयेन वशं नीतः परन्तु अयं व्याघ्रः भेदं विना वशे न भविष्यति ।"

एवं विचार्य स शृगालः तस्य व्याघ्रस्य सम्मुखे भूत्वा अकथयत्---"माम्, कथम् अत्रभवान् मृत्युमुखे प्रविष्टः । अयं गजः सिंहेन हतः । अहं च तेन सिंहेन अस्य गजस्य रक्षणे नियुक्तः अस्मि । सिंहः माम् आदिशत्---"यदि कश्चिद् व्याघ्रः अत्रागच्छति, तर्हि त्वं मां सुगुप्तं सूचय, येनाहम् इदं वनं निर्व्याघ्रं कुर्याम् ।"

व्याघ्रः तं शृगालम् अपृच्छत्---"कथं सिंहः वनं व्याघ्रैः हीनं कर्तुमिच्छति ????"

शृगालः अवदत्---"शृणु, पूर्वम् एकः व्याघ्रः सिंहेन हतम् एकं गजम् भक्षयित्वा उच्छिष्टम् अकरोत् । अतः सः सिंहः व्याघ्रान् प्रति प्रकुपितः अस्ति ।"

तदा भीतः व्याघ्रः शृगालम् अवदत्---"भो भागिनेय, देहि मे प्राणभिक्षाम् । त्वं सिंहस्य अग्रे मम आगमनवार्ता न कथय ।"

एवं कथयित्वा सः व्याघ्रः सत्वरं तस्मात् स्थानाद् दूरम् अधावत् ।

अथ व्याघ्रे गते तत्र एकः चित्रकः आगच्छत् । तं दृष्ट्वा सः शृगालः अचिन्तयत्---"अस्य चित्रकस्य दन्ताः दृढाः सन्ति । अतः अनेन गजस्य चर्मच्छेदः कारयितव्यः ।"

एवं निश्चयं कृत्वा स तं चित्रकम् अकथयत्---"भो भगिनीसुत ! कथं त्वं चिरात् दृष्टः असि ??? त्वं मे अतिथिः असि । कथं तव अतिथिसत्कारं करोमि ??"

चित्रकः अवदत्---"तव वचनेन एव प्रीतः अस्मि तथापि माम् कथय, अयं गजः कथं मृतः) कस्य च भोजनं वर्तते ????"

शृगालः अवदत्---"अयं गजः सिंहेन हतः अहम् चास्य रक्षकः अस्मि । तथापि त्वं मे अतिथिरसि । अतः यावत् स सिंहः नागच्छति, तावत् त्वमस्य स्वादु मांसं यथेच्छ भक्षय । तस्य सिंहस्य आगमनम् अहं दूरतः एव निवेदयिष्यामि ।"

तदनन्तरं चित्रकः गजस्य चर्मच्छेदने तत्परः अभवत् । चित्रकः यदा गजस्य चर्मच्छेदं पूर्णतया अकरोत् तदा
शृगालः  तमकथयत्---"भो भागिनेय ! अयं सिंहः आगच्छति । त्वमधुना दूरं गच्छ, अन्यथा स सिंहः त्वां हनिष्यति ।"

प्रसन्नः शृगालः अधुना गजस्य मांसं खादितुम् तत्परः अभवत् । तदैव तत्र एकः अन्यः शृगालः आगच्छत् ।तं तुल्यपराक्रमं दृष्ट्वा स महाचतुरकः तेन शृगालेन सह युद्धम् अकरोत् । पराजितः स अपरः शृगालः दूरम् अधावत् । शृगालश्च सुखेन गजमांसं चिरमभक्षयत ।

सत्यमेव कथितम्---

"उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ।।"

कथा-मञ्जरी

======================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें