शनिवार, 20 फ़रवरी 2016

कुम्भ-विद्या

!!!---: कुम्भ-विद्या :---!!!
=======================

एकस्मिन् ग्रामे एकः कृषकः आसीत् । तस्य नाम भोलारामः आसीत् । एकस्मिन् वर्षे वर्षायाः अभावेन तस्य क्षेत्रे अन्नम् उत्पन्नम् न अभवत् । अन्नाभावेन सः क्षेत्रस्य शुल्कम् दातुम् अपि असमर्थः अभवत् । अन्यस्मिन् दिने सः गृहं त्यक्त्वा बहिः अगच्छत् । सः खिन्नः सर्वम् दिनम् व्यर्थम् अभ्रमत् । बुभुक्षितः श्रान्तः च सः एकस्य वृक्षस्य छायायाम् सुप्तवान् । अर्धरात्रौ जागृतः सः अग्रे मन्दिरात् अवतरन्तम् कञ्चित् जन्म अपश्यत् । तस्य जनस्य हस्ते एकः विचित्रः कुम्भः आसीत् ।


कृषकः अपश्यत् यत् सः जनः प्रसन्नः भूत्वा कुम्भम् धरायाम् स्थापितवान् । रेखाम् उत्कीर्य कुम्भम् परितः सः आज्ञापयत्---"हे कुम्भ, मह्यम् सुन्दरम् विष्टरम् आनय । तदनन्तरम् स्वादिष्टम् भोजनम् शीतलम् जलम् चानय । सेविकाः अपि आगच्छन्तु ।।"



तत्क्षणमेव तत्र सुन्दरम् विष्टरम् सुसज्जितम् अभवत् । चतस्रः सेविकाः आगच्छन् । ताः सेविकाः स्वर्ण-पात्रे भोजनम्, रजत-कलशे जलम् आनीय तत्र उपस्थिताः अभवन् । बुभुक्षितः सः जनः सर्वम् अभक्षयत् । ततः सः कुम्भम् अवदत्---"हे कुम्भ, सर्वम् तुप्तम् कुरु ।"



तदा सर्वम् लुप्तम् अभवत् । सः कुम्भम् वस्त्रेण आच्छाद्य चलितुम् अयतत । चकितः भोलारामः धावित्वा तम् जनम् उपागच्छत् । तस्य पादयोः पतित्वा तम् अकथयत्---"हे दयालो , अहम् अति निर्धनः अस्मि । मयि कुपां कुरु । अनेन कुम्भेन मम सहायताम् कुरु ।"



सः दयालुः जनः प्रत्यवदत्---"हे कृषक, धैर्यधारणम् कुरु । कदाचित् अहम् अपि त्वादृशः इव निर्धनः आसम् । मुमुर्षुः अहम् एकस्मात् साधोः इमाम् कुम्भ-विद्याम् प्राप्तवान् । सप्तभिः दिनैः मन्त्रजपेन विद्या प्राप्ता भवति । इयम् विद्या अद्यैव सिद्धिम् गता अस्ति । अहम् कुम्भम् अद्य प्राप्तवान् । कुम्भम् गृृहीत्वा बहिः आगच्छम् । कुम्भविद्यायाः परीक्षणाय भोजनादिकम् सर्वम् आदिष्टवान् । त्वम् सर्वम् दृष्टवान् एव यत् कुम्भे असीमा शक्तिः अस्ति ।य़ त्वमपि कुम्भ-विद्यायाः ज्ञानम् लभस्व । अथवा इमम् कुम्भम् एव गृहाण द्वयोः एकम् प्राप्स्यसि ।"



तस्य कथनं श्रुत्वा प्रसन्नः भोलारामः सप्तदिवसीयम् जपम् उपेक्ष्य कुम्भम् एव तम् अयाचत । सः जनः कुम्भात् धनम् गृहीत्वा भोलारामाय कुम्भम् अयच्छत् । भोलारामः कुम्भम् एकम् रथम् अयाचत । तम् रथम् आरुह्य सः गृहम् अगच्छत् । गृहम् आगत्य सः कुम्भम् प्रभूतम् धनम् अयाचत । धनेन सः सुन्दरम् गृहम् निर्मितवान् ।




एकस्मिन् दिवसे भोलारामः सर्वान् सम्बन्धिनः परिचितान् च भोजनाय निमन्त्रितवान् । उत्सव-समये भोलारामः कुम्भम् शिरसि निधाय अनृत्यत् । अकस्मात् पतितः कुम्भः पादाघातेन शकलीभूतः अभवत् । स्फुटिते कुम्भे सर्वम् लुप्तम् अभवत् । सर्वे तम् उपाहसन् । दुःखितः भोलारामः अचिन्तयत्--"अहम् किम् कृतवान् । कुम्भम् प्राप्तवान् कुम्भविद्याम् न ज्ञातवान् अहो मम दुर्भाग्यम् ।"

===================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें