रविवार, 21 फ़रवरी 2016

अस्माकं भारतदेशः

!!!---: अस्माकं भारतदेशः :---!!!
============================
www.vaidiksanskrit.com

प्राचीनकाले अस्माकं देशे दुष्यन्तः नामकः एकः प्रतापी राजा आसीत् । तस्य सुतः भरतः चक्रवर्ती सम्राट् आसीत् । इदं कथ्यते यत् तस्य नाम्ना एव अस्य देशस्य नाम भारतम् इति प्रसिद्धम् अभवत् ।

भारतस्य उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः वर्तते । सः हिममण्डितैः दुर्गमैश्च निजशिखरैः प्रहरीव भारतस्य रक्षां करोति । दक्षिण-दिशायां च हिन्दमाहासागरः भारतमातुः चरणप्रक्षालनं करोति ।


भारतदेशः कृषिप्रधानोस्ति । अस्य पर्वतेभ्यः निर्गताः नद्यः निजपावनेन जलेन वसुन्धरां शस्यश्यामलां कुर्वन्ति । नदीषु गंगा पवित्रतमा वर्तते । अस्याः जलम् अमृततुल्यम् अस्ति । यमुनायाः जलमपि पवित्रं मन्यते । नर्मदा, कृष्णा, कावेरी, महानदी, गोदावरी तथा अन्याः प्रसिद्धाः नद्यः भारतभूमिम् सिञ्चन्ति ।


अस्मिन् देशे समये-समये षण्णाम् ऋतूणाम् आगमो भवति । एतादृशम् सुन्दरम् ऋतुपरिवर्तनम् संसारे अन्यत्र दुर्लभः अस्ति । न केवलम् ऋतूणाम् एव विविधतात्र वर्तते, अपितु भाषाणां वेषभूषाणां जातिधर्माणां चापि विविधता द्रष्टुं शक्यते । प्रकृतेः लीलास्थली एव भारतस्य वसुधा ।


प्राचीनकाले संसारस्य मानवाः भारते आगत्य ऋषीणाम् आश्रमेषु विद्यां गृह्णन्ति स्म । अस्माकं प्राचीनशिक्षायां जीवने सदाचारस्य, नैतिकतायाः पवित्रतायाश्च अतीव महत्त्वम् आसीत् ।


कालान्तरे भारतं पराधीनम् अभवत् , किन्तु तिलक-गान्धि-नेहरू-सुभाष-भक्तसिंह-प्रभृतिनीम् देशभक्तानां महता प्रयासेन बलिदानेन च भारतं पुनः स्वतन्त्रम् अभवत् ।


अद्यत्वे अस्माकं देशः सर्वेषु क्षेत्रेषु महतीम् उन्नतिं करोति, किन्तु एका भीषणा समस्या अस्माकं सम्मुखे उपस्थिता यत् भारतस्य जनसंख्या सुरसामुखमिव तीव्रगत्या वर्धते । अधुना तु इयं विस्फोटस्थितिं प्राप्ता । अनया महर्घता, पर्यावरणस्य प्तदूषणता, जीविकोपार्जनस्याभावः , निर्धनता-इत्यादयः समस्याः अस्माकं प्रगतिबाधकाः भवन्ति ।

===========================
www.facebook.com/kathamanzari
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें