मंगलवार, 9 फ़रवरी 2016

!!!---: भोजराजस्य संस्कृतानुरागः :---!!!

!!!---: भोजराजस्य संस्कृतानुरागः :---!!!
===============================
www.vaidiksanskrit.com

महाराजः भोजः संस्कृतभाषायाः महान् विद्वान् आसीत् । तस्य संस्कृतानुरागः लोकविश्रुतः अस्ति । धारानगरी तस्य राजधानी आसीत् । तस्यां नगर्याम् अनेके कवयः आसन् । भोजेन निजराज्ये इयं घोषणा कृता आसीत्----"मम राज्य संस्कृतस्य पण्डिता एव केवलं वत्स्यन्ति । ये जनाः संस्कृतभाषां न जानन्ति, ये च काव्यं कर्तुम् न शक्नुवन्ति तेषां कृते मम राज्ये स्थानं नास्ति ।"

एकदा वाराणसीतः कश्चिद् विद्वान् भोजराजस्य राजधानीम् आगच्छत् । सम्प्रति तस्य आवासस्य प्रबन्धः धारानगर्यामेव करणीयः आसीत् ।

भोजराजः सेवकान् समादिशत्---"भो सेवकाः, नगरी गत्वा पश्यत । यदि कश्चिद् अपण्डितः तत्र वसति सः शीघ्रं नगराद् बहिः कर्त्तव्यः । तस्य स्थाने अयं पण्डितप्रवरःवत्स्यति ।"

राजपुरुषाः धारानगर्याः कोणे-कोणे अभ्राम्यन् परं ते तत्र कमपि अपण्डितं नापश्यन् । सायंकाले ते कस्यचित् तन्तुवायस्य गृहं गत्वा एकं तन्तुवायं गृहीत्वा भोजराजस्य सम्मुखे अनयन् । भोजराजः तन्तुवायम् अपृच्छत्---"भो तन्तुवाय, मम देशे केवलं संस्कृतस्य पण्डिता एव वसन्ति नान्ये । अपि त्वं संस्कृतं जानासि, संस्कृतम् आश्रित्य काव्यं कर्तुं वा समर्थः असि ।"

तन्तुवायः प्रत्यवदत्---"महाराज ! तन्तुवयनं मम व्यवसायः । अहं रात्रिन्दिवम् परिश्रम्य अनेन व्यवसायेन जीविकाम् अर्जयामि । काव्यरचनायां महाकवितुल्यः मम अभ्यासः नास्ति तथापि किञ्चित् निवेदयामि । श्रोतुम् अर्हन्ति भवन्तः"---

"काव्यं करोमि नहि चारुतरं करोमि,
यत्नात् करोमि यदि चारुतरं करोमि ।
भूपालमौलिमणिमण्डितपादपीठ,
हे साहसाङ्क, कवयामि वयामि यामि ।।"

भोजराजः---"साधु कुविन्द !! साधु !!! कीदृशी लालित्यपूर्णा पदयोजना । "कवयामि वयामि यामि"--धन्योSसि त्वम् । अहमपि आत्मानं धन्यं मन्ये, यस्य राज्ये तन्तुवायाः, कुम्भकाराः अयस्काराः शिल्पिनः श्रमिकाः अपि ललितां काव्यरचनां कुर्वन्ति ।"

(तन्तुवायं प्रति) "भो कविवर ! गृहाण पुष्कलं स्वर्णमयं पारितोषिकम् । निजम् आवासम् च प्रयाहि । (मन्त्रिणं प्रति) पण्डितः मम राजभवने वासयितव्यः, यावद् अपरा व्यवस्था न भवति ।"

(राजा तन्तुवायाय स्वर्णमुद्रा अर्पयति । तन्तुवायः पारितोषिकं प्राप्य प्रसन्नवदनः राजानम् अभिवाद्य गृहं प्रयाति ।)

www.facebook.com/kathamanzari
=====================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
(10.) डॉ. प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(11.) संवाद
www.facebook.com/somwad
(12.) दिल से
www.facebook.com/dilorshayari
(13.) आर्य समाज
www.facebook.com/satyasanatanvaidik
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें