रविवार, 14 फ़रवरी 2016

दधीचेः औदार्यम्

!!!---: दधीचेः औदार्यम् :---!!!
=========================
www.vaidiksanskrit.com

पुरा वृत्रासुरः देवान् भृशम् अपीडयत् । इन्द्रादयः ते देवाः प्रजापतिम् उपागच्छन् । तान् समागतान् दृष्ट्वा प्रजापतिः आगमनस्य कारणम् अपृच्छत्---"प्रभो !!! वृत्रासुरः अस्मान् पीडयति । तस्य शक्तेः पुरतः वयं स्थातुं न शक्नुमः । अतः भीताः वयम् अत्र आगताः ।"


प्रजापतिः अभणत्---"हरिः एव अस्मान् रक्षितुम् समर्थः । तमेव शरणं गच्छामः ।"

प्रजापतिः देवैः साकं वैकुण्ठं गत्वा हरये सर्वमपि वृत्तान्तं न्यवेदयत् । तत् श्रुत्वा हरिः अकथयत्---"भोः प्रजापते !!! देवाः महर्षेः दधीचेः अन्तिकं गत्वा तस्मात् अस्थि-याचनं कुर्वन्तु । सः नूनम् अस्थीनि दास्यति । तैः अस्थीभिः वज्रायुधं घटयत । तेन वृत्रं हन्तुं युद्धे असुरान् जेतुं च पारयिष्यथ ।"


ततः सर्वे देवाः दधीचेः तपोवनम् अगच्छन् । तत् तपोवनं कपीनां क्रीडाभिः हरिणानां विहारैः अलीनां गुञ्जनैः च रमणीयम् आसीत् । तत्र बहवः मुनयः उपविष्टाः तपस्यां कुर्वन्ति स्म ।


देवाः दधीचेः आश्रमं प्राविशन् । तत्र ते अनेकैः ऋषिभिः परिवृत्तम अग्निमिव प्रभया देदीप्यमानं दधीचिम् अपश्यन् । ते ऋषीन् दधीचिं च दृष्ट्वा अनमन् । दधीचिः इन्द्रम् अपृच्छत्---"किमर्थं यूयम् अत्र आगताः ?"


इन्द्रः सादरम् अकथयत्---"महर्षे !!! वयं वृत्रेण पीडिताः त्वां शरणम् उपागताः । कृपया त्वम् अस्मभ्यम् स्वानि अस्थीनि प्रयच्छ । घटयाम तैः अस्थिभिः आयुधम् , येन वयं वृत्रं हन्तुं पारयामः ।"


दधीचिः इन्द्रस्य वचनं श्रुत्वा नितराम् अतुष्यत् । सः अकथयत्---"भोः इन्द्र !!! अद्य मम जीवितं सफलं जातं यत् मे शरीरं युष्माकम् उपकाराय भवति । परोपकारार्थम् इदं शरीरम् । अहं युष्मभ्यम् इदं शरीरं सहर्षं प्रयच्छामि, स्वीकुरुत ।"


स नेत्रे निमील्य समाधिस्थः अभवत् । देवाः तस्य अस्थीनि आदाय तैः वज्र-आयुधम् अरचयन् । तेन च इन्द्रः युद्धे वृत्रासुरम् अमारयत् । एवं देवाः दधीचेः औदार्येण वृत्र-भयात् मुक्ताः अभवन् ।


=================================


हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें