गुरुवार, 10 मार्च 2016

अभ्यासः किं न साधयेत्

!!!---: अभ्यासः किं न साधयेत् :---!!!
===============================
www.vaidiksanskrit.com

कांगडाप्रदेशान्तर्गते एकस्मिन् आवसथे एका संस्कृत-पाठशाला अवर्तत । तस्यां शालायाम् अध्यापयमाना गुरुजना न्याय-वेदान्त-मीमांसा-व्याकरणादिशास्त्राणां पारदृश्वानः आसन् । ते अतिसमुत्साहेन छात्रगणं नैकविषयान् अध्यापयन्ति स्म ।

तत्रत्यां ख्याति निशम्य अन्येभ्योSपि प्रदेशेभ्यः ज्ञानपिपासवः तत्रागत्य प्रवेशम् अलभन्त । एवं तत्र छात्राणां संख्या दिनानुदिनम् उपचीयमाना आसीत् । समीपस्थनगरनिवासिनो धनिश्रेष्ठाः पुष्कलेन धनेन, अन्नप्रदानेन पुस्तकवसनादिवितरणेन पाठशालायाः सुचारुव्यवस्थां स्वकर्त्तव्यं मन्यन्ते स्म ।

एकदा रामनाथो नाम कश्चिद् बालः कस्माच्चित् प्रदेशात् तत्रागतः । प्रवेशम् आप्त्वा स पठने निरतोSभवत् , किन्तु मन्दबुद्धितयाSसौ गुरुजनोदितं सम्यग् अवबोद्धुं न शशाक । कतिपयैरेव अहोभिः तस्य पठने अरुचिर्जाता ।

एकदा क्वचित् तेन पठितं यत् मन्त्रजपात् विद्याप्राप्तिः भवति । एतेन समुत्साहितोSसौ सरित्तीरं प्राप्य मन्त्र-जपे निरतोSभवत् ।

इत्थं जपं कुर्वतः तस्य कतिपयानि अहानि यातानि । तस्मिन् नदीतीरे एकः स्थविरः विप्रोSपि प्रतिदिनम् आगत्य स्नानान्ते सन्ध्याम् उपास्ते स्म । स औत्सुक्येन अल्पवयसं बालं मन्त्रजपे सक्तं निरीक्ष्य एकदा पृष्टवान्---"भो बाल ! कथम् अस्मिन् मन्त्रजपे तेSभिनिवेशः ? किं प्रयोजनोयं तेबाल आयासः? तव तु पठनाभ्यासकाल एषः । केन कारणविशेषेण मन्त्रजपे ते प्रवृत्तिर्जाता? निःसंकोचम् उच्यताम् ।

बालः तं वृद्धम् अभिवाद्य सविनयम् उवाच । अहं विद्याप्राप्त्यर्थे मन्त्र जपामि । तद्वचनम् आकर्ण्य वृद्धः अनुक्त्वा विञ्चित् तत्पार्श्वे उपाविशत् । ततः स बालुकामुष्टिं तीव्ररये जलप्रवाहे क्षेप्तुम् आरेभे । पौनः पुन्येन एवं कुर्वाणं तम् अवलोक्य बालः अपृच्छत् --भवान् किमेतत् करोति ?

वृद्ध उवाच---"अहं बालुकया सेतुं निर्माय परं पारं गन्तुमीहे ।"

बालो विहस्य-अवदत्--अनर्थकः प्रयासः एषः । यतो बालुकां तु जल-प्रवाहः सहैव नयति । कथं सेतुनिर्माणं भवितुम् अर्हति ?

विप्रः सहासं बभाषे--वत्स, ममेव तव प्रयासः अपि अपार्थः । विद्या अभ्यासेन सिध्यति न तु मन्त्रजपेन । तद् गच्छ शालाम् । पुनः उद्योगम् आचर । अभ्यासं च विधेहि । चिरेण वा अचिरेण वा त्वं विद्यावान् भविष्यसि । बालः तद् अभिप्रायां अवेत्य तं प्रणनाम, अध्ययने च प्रावर्तत ।


=========================
www.facebook.com/kathamanzari
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें