शुक्रवार, 18 मार्च 2016

ऋतुः वसन्तः


!!!---: ऋतुः वसन्तः :---!!!
=================================
www.vaidiksanskrit.com

समागतः वसन्तः !

स्वागतं ते ऋतुराज !

त्वमेव कुसुमाकरः । तवागमने भवति पुष्पाणां विकासः , सौरभाणां च प्रसारः । अतः तव आगमनं सर्वान् जनान् आनन्दयति , निखिलान् प्राणिनः प्रीणयति, चराचरम् च रमयति । इदानीम् जडता विलीयते, मलिनता अपगता भवति, स्वच्छता एव दृश्यते परितः ।

पश्यतु मनाक् निर्मलम् आकाशम् । स्वच्छाः दिशः प्रसन्ना इव भान्ति अद्य । सर्वत्र तडागेषु नदीषु कुल्यासु सरःसु च राजते विमलं वारि । क्वचित् मुकुलितानि अपरत्र प्रफल्लितानि कमलवनानि । विकसितानां पङ्कजानां शोभा कस्य मनो न हरति ।

वनेषु, वाटिकासु , उद्यानेषु च नाना-वर्णानि पुष्पाणि शोभन्ते । पुष्पाणाम् उपरि गुञ्जन्ति भ्रमराः । ते च प्रियाभिः सह सानन्दं मधूनि पिबन्ति, मधुनामत्तः पिको मधुरं कूजति, तदीयं ध्वनिं बालकाः अनुकुर्वन्ति । वृक्षेषु नवपल्लवाः विराजन्ते । आम्रेषु मञ्जर्यः संलग्नाः कुसुमितं सहकारम् आश्रित्य लता प्रमुदिता । रसाले संगता लता लोकानां मनांसि हरति । पक्षिणां कलकूजनम् अपि सर्वेषां सुखदं भवति ।

अद्यत्वे मधुनः आधिक्यम्, पुष्पेषु मधूनि भवन्ति, मञ्जरीषु च भवन्ति मधूनि, मधुने लोलुपाः चञ्चरीकाः यदा प्रमादं कुर्वन्ति तदा तेषां पक्षाः संसक्ताः भवन्ति, मधुना संश्लिष्टतया ते कदाचिद् उड्डयितुम न पारयन्ति, तथापि मधुनि तादृशः स्वादः भवति येन ते ततो न विरमन्ति, अपि तु अनवरतं तत्र स्वानुरागं प्रकटयन्ति ।

सर्षपः पीतं वसनं दधानः प्रकटयति वासन्तिकं विलासम् । पुष्पेभ्यः सौरभं वारिभ्यः शीतलतां चादाय प्रवाति मन्दः पवनः । पवनेन आन्दोलिता मन्दं मन्दं कम्पमाना लता नर्तकीव नृत्यन्ती प्रतीयते ।

अस्मिन् समये प्रमुदिताः सर्वे जनाः समूहं रचयित्वा प्रकृतिशोभां पश्यन्तः भ्रमन्ति । उद्यानेषु, वाटिकासु, नदीतटेषु च क्वचित् गायन्ति लोकाः । अपरत्र नृत्यनति कूर्दन्ति च बालकाः । न केवलं मानवाः एव अपि तु पशवः पक्षिणः चापि प्रमुदिताः भवन्ति वसन्ते ।

=============================
शब्दार्थः--- कुसुमाकरः----फूलों का भण्डार, वसन्त ऋतु । प्रीणयति---प्रसन्न करता , जडता---सर्दी,
विलीयते---मिट गई है,
परितः---चारों ओर,
मनाक्---थोडा,
कुल्यासु---नहरों में,
मुकुलितानि---बिना खिले हुए,
पिकः---कोयल,
चञ्चरीकाः---भौंरे,
प्रमादम्----असावधानी,
पक्षाः---पंख,
संश्लिष्टतया---चिपक जाने से,
वसनम्---वस्त्र,
आन्दोलिता---हिलती हुई ।



===========================
www.vaidiksanskrit.com
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें