बुधवार, 2 मार्च 2016

सोमशर्मपितुः कथा

!!!---: सोमशर्मपितुः कथा :---!!!
==========================
www.vaidiksanskrit.com

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत् । तस्य नाम धनपालः आसीत् । सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म । भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत् ।

सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः खट्वायां शयनं करोति स्म, शयनकाले च निरन्तरम् एकदृष्ट्या घटं पश्यति स्म ।

सः एकदा रात्रौ एवम् अचिन्तयत्---मम अयं घटः सक्तुभिः पूर्णः अस्ति । यदा दुर्भिक्षं भविष्यति तदा सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि । ततः तेन धनेन अहम् अजाद्वयस्य क्रयं करिष्यामि । अजाद्वयस्य शिशुभिः अजानां समूहः मम समीपे भविष्यति । अजानां विक्रयेण गवां, महिषीणाम्, अश्वानां च क्रयं करिष्यामि, तासां शिशुभिः बहवः पशवः भविष्यन्ति । तेषां विक्रयेण मम पार्श्वे बहूनि धनानि आगमिष्यन्ति, धनेन विशालस्य भवनस्य निर्माणं करिष्यामि ।

तदा मां धनिकं मत्वा कोपि रूपवतीं कन्यां मह्यं प्रदास्यति । ततः मम पुत्रः भविष्यति । तस्य नाम सोमशर्मा इति करिष्यामि । कदाचित् क्रीडन् सः पुत्रः मम समीपम् आगमिष्यति । तदा कुपितः अहं स्वपत्नीं वदिष्यामि---"गृहाण एनं बालकम् ।" सा गृहकार्ये संलग्ना मम वचनं यदा न श्रोष्यति तदा अहं पत्न्याः उपरि पादेन प्रहरिष्यामि ।

एवं स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत् । तेन सक्तुपूरितः घटः भूमौ पतितः भग्नः च अभवत् । भग्नेन घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन् । अतः उक्तम्---

"उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।" इति ।





सक्तुभिः --सत्तुओं से, नागदन्ते---खूँटी पर, अवलम्ब्य---टाँगकर, खट्वायाम्---खाट पर, एकदृष्ट्या---एकटक, दुर्भिक्षाम्---अकाल पर, प्रचुरम्---बहुत अधिक, प्राप्स्यामि----प्राप्त करूँगा, (करूँगी), अजाद्वयस्य--दो बकरियों का, क्रयः ---खरीद, शिशुभिः--बालकों से, विक्रयेण--बेचने से, गवाम्---गायों का, महिषीणाम्---भैंसों का, अश्वानाम्---घोडों का, पार्श्वे---पास में, मत्वा--मानकर,
मह्यम्---मुझे, प्रदास्यति--देगा, गृहाण---ग्रहण करो, कदाचित्---कभी, क्रीडन्---खेलता हुआ, कुपितः क्रोधित, संलग्ना--लगी हुई, श्रोष्यति---सुनेगी, उपरि---ऊपर, भग्नः---टूट गया, कारयिष्यामि---कराऊँगा ।
==================================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें