रविवार, 13 मार्च 2016

यमुना विषरहिता जाता


!!!---: यमुना विषरहिता जाता :---!!!
============================


एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् अगच्छत् । गोपाः अपि तेन सह अगच्छन् । गोपाः पिपासया आकुलाः अभवन् । ते यमुनाजलम् अपिबन् । जलं पीत्वा ते मूच्र्छिताः अभवन् । श्रीकृष्णः तान् मूर्च्छितान् दृष्ट्वा व्याकुलाः अभवत् । वस्तुतः यमुनाजले कलियानागस्य कुण्डम् आसीत् । तेन यमुनाजलं विषज्वालाभिः विषाक्तं जातम् । अनेके खगाः पशवः च तत् जलं पीत्वा मृत्युं प्राप्ताः । वायुः अपि तेन विषयुक्तः अभवत् । तेन वायुना वृक्षाः शुष्काः जाताः ।


यदा श्रीकृष्णः एतत् सर्वम् अपश्यत्, सः एकं वृक्षम् आरोहत् । तस्मात् वृक्षात् सः विषयुक्ते जले अकूर्दत् । कलियानागस्य एकाधिशतं फणाः आसन् । सः तान् प्रसार्य कृष्णं प्रहर्तुम् ऐच्छत् । श्रीकृष्णः तस्य फणान् आरुह्य अनृत्यत् । कलियानागस्य फणाः शनैः शनैः छिन्नाः भिन्नाः अभवन् । मुखात् रक्तं प्रावहत् ।




सः हस्तौ संयोज्य अवदत्---"भगवन्, वयं नागाः जन्मतः एव विषयुक्ताः । अयं न मम अपराधः । भवान् एव सर्वप्राणिना प्रभुः । अनुग्रहं करोतु निग्रहं वा" इति । एवं प्रार्थितः श्रीकृष्णः अनुग्रहं कुर्वन् अवदत्---"रे दुष्ट, किं न जानासि त्वं यत् तव कारणात् सर्वं जलं विषयुक्तं भवति । इतः कुत्रापि अन्यत्र गच्छ" इति । सर्पः ततः पलायितः । एवं च यमुना विषरहिता जाता । सर्वे जनाः प्रमुदितः आसन् ।

==========================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें