सोमवार, 7 मार्च 2016

कामनाजालम्

!!!---: कामनाजालम् :---!!!
=====================


एकदा भगवान् बुद्धः पाटलिपुत्रे चातुर्मासं कृतवान् । तस्य प्रवचनानि श्रोतुं बहवः जनाः आयान्ति स्म ।

एकस्मिन् दिवसे सभायां सहस्रशः लोकाः उपस्थिताः आसन् । बुद्धस्य प्रियशिष्यः आनन्दः तम् अपृच्छत्---"भगवन् ! एतस्मिन् महति जनसमवाये भवान् कं सर्वाधिकं सुखिनं मन्यते ?"

तथागतः अब्रवीत्--"पश्य, अन्तिमायां पंक्तौ स्थितः दुर्बलदेहः कन्थाधारी नरः सर्वाधिकः सुखी अस्ति ।"

एतत् कथम् इति पृष्टः भगवान् बुद्धः अभाषत---"अहं तव समक्षे एव एतान् पृच्छामि , ततः सत्यं ज्ञास्यसि ।"

स प्रत्येकं जनं प्रश्नं पृष्टवान्---"किम् इच्छति भवान् ?"

तेषाम् उत्तराणि आसन्---"धनम् इच्छामि", सन्ततिम् इच्छामि", "रोगात् मुक्तिं कामये", "अभियोगे विजयं कामये" इत्यादयः ।

अन्ते स तं कृशकायं जनं पृष्टवान् । स प्रत्युवाच---"कापि कामना मे नास्ति । अहं सर्वथा सर्वथा सुखी अस्मि । यदि भवान् मयि प्रसन्नः अस्ति, तदा मम मनसि काचिद् इच्छा अवशिष्टा भवेत् तां निरस्यतु ।"

वस्तुतः कामनारहितः नरः एव संसारे सुखी भवति ।

====================================
सन्ततिः---सन्तान, कृशकायम्---कमजोर प्रत्युवाच---प्रत्युत्तर दिया, काचित्---कुछ, अवशिष्टा---बचा हुआ, निरस्यतु---निरस्त कर दें,
अभियोगम्---केस, कामये--इच्छा करता हूँ,
पृष्टवान्--पूछा, चातुर्मासम्---चार महिने, श्रोतुम्--सुनने के लिए, सहस्रशः---हजार, महति----बडी, कन्थाधारी---फटे-चिटे वस्त्र, समक्षे----सामने, ज्ञास्यसि---जानोगे

==================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें