रविवार, 22 मई 2016

शिवाः आपः सन्तु

!!!---: शिवाः आपः सन्तु :---!!!
==============================
जीवने अन्नापेक्षया जलस्य अधिकं महत्त्वमस्ति । अत एव जलस्यापरं नाम "जीवनम्" इति संगच्छते ।

जलं यथा व्यक्तेः जीवने अनिवार्यं भवति तथैव समाजस्य राष्ट्रस्य च जीवनेSपि । अस्माकं देशः कृषिप्रधानः अस्ति । देशस्यौद्योगिकः, आर्थिकः, भौतिकः च विकासः कृषिमवलम्ब्यैव तिष्ठति । कृषेः विकासाय जलमावश्यकम् । वृष्टिजलेन, नदीजलेन, प्रपातजलेन, कूपजलेन, तडागजलेन वा कृषेः सेचनं भवति ।

ये च देशाः नदीजलेन सस्यसम्पन्नाः भवन्ति ते "नदीमातृकाः" सन्ति । नद्यः स्नानाय, पानाय, सस्यसेचनाय च जलं वितरन्ति । जनाः नदीषु तत्र तत्र सेतुं बद्ध्वा जलसञ्चयं कृत्वा कुल्याद्वारा जलं सुदूरं नयन्ति । तेन च क्षेत्राणि सिञ्चन्ति । ये च देशाः कृषिकार्याय वृष्टिजलमपेक्षन्ते ते "देवमातृकाः" भवन्ति ।

नद्योSपि वृष्टिमवलम्बन्ते । "काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी" इति वृष्टेः महत्त्वं सूचयति । न हि शक्नुवन्ति जलम् अन्तरा तृणादीन्यपि जीवितुम् । तृणादीनि च धेन्वादीनां पशूनामाहाराः भवन्ति । पशवो मानवजीवनस्य मुख्यानि अङ्गानि सन्ति ।

प्रायेण नदीतीरेष्वेव महानगराणि विकासमुपगच्छन्ति । नानाप्रकाराः उद्योगाः अपि तत्रैव स्थाप्यन्ते विकसन्ति च । जजलमार्गेण सञ्चारस्य सौकर्यमपि मानवजीवनं सुखमयं करोति । अत एव नदीतटेषु जनानामावासस्थानानि अधिकानि दृश्यन्ते ।

सर्वप्रकाराणाम् उद्योगानां विकासः विद्युतः शक्तिम् अपेक्षते । तां विना कोSपि उद्योगः अधिकोत्पादनक्षमो लाभप्रदो वा न भवति । प्रकाशाय तस्याः उपयोगः सर्वविदितः । सा च शक्तिः स्वाभाविकैः कृतकैः वा जलप्रपातैः निरायासम् उत्पाद्यते । अतः नदीजलं विद्युदुत्पादनेSपि सहायकं भवति ।

एवं च नद्यः राष्ट्रजीवनं सर्वसम्पन्नं कुर्वन्ति । परन्तु कदाचित् इमाः भीषणाकारं धारयन्त्यः जलप्रवाहैः देशान् प्लावन्त्यः विनाशहेतवोSपि भवन्ति । अत एव भारतीयाः निग्रहे अनुग्रहे च समर्थतया इमाः देवताः मन्यन्ते ।



पुरातनाः महर्षयस्तु जलस्य महत्त्वं सम्यक् ज्ञातवन्तः आसन् । अत एव ते "शिवाः आपः भवन्तु" इति प्रार्थयन्त । जलानि सर्वदा मङ्गलरूपाणि भवन्तु, मा कदापि नाशकानि भवन्तु इति मन्त्रस्याशयः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
https://www.facebook.com/आर्यावर्त्त-गौरवम्-667029006770973
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें