सोमवार, 16 मई 2016

शुनः पुच्छम्

!!!---: शुनः पुच्छम् :---!!!
=======================
एकस्मिन् प्रदेशे एकः काष्ठहारकः आसीत् । स एकस्यां जीर्णकुट्यां निवसति स्म, । वनात् इन्धनानि छित्त्वा विक्रीय च स्वप्राणायात्रां समाचरति स्म ।

स प्रकृत्या अलसः अनुद्यमः चासीत् । स सदा चिन्यति स्म, यदि कश्चित् भूतः प्रेतो वा मम वशवर्ती स्यात्, , स मम सर्वाणि अभीष्टानि सद्यः एव साधयेत्, अहं च नानाभोगान् भुञ्जानः विलासशय्यायां च शयानः संसारस्य सुखानि अनुभवेयम् ।

तस्य कुट्याः अनतिदूरे एकः ऐन्द्रजालिकः वसति स्म । असौ काष्ठजीवी एकदा तम् उपगम्य अवदत्, अहं भवतः प्तिवेशी अस्मि । मया श्रुतं यत् भूत-प्रेतादयः भवतः वशवर्तिनः सन्ति । भवान् तेषां सहायतया अचिरेण सर्वाणि अभीष्टानि साधयति । यदि भवतः अनुग्रहः स्यात्, ममापि कार्याणि निमेषमात्रेण भवितुम् अर्हन्ति । कृपया सेवाकर्माणि दक्षम्, एकं भूतं मम वशवर्तिनः करोतु भवान् ।

ऐन्द्रजालिकः उवाच---"अहं तुभ्यं भूतं तु दास्यामि, किन्तु स कदापि अकर्मण्यः न तिष्ठति । यदि त्वं तं कार्ये न नियोजयिष्यसि, स त्वां खादिष्यति । काष्ठहारकः मुदितो भूत्वा अवदत्, "अलं शंकया । अहं सर्वदा तं कार्येषु व्यस्तं करिष्यामि ।"

पुनः पुनः तस्यानुरोधात् दयमानः ऐन्द्रजालिकः तस्मै एकं भूतम् अयच्छत् । स तेन सह कुट्यां प्राप्तः ।

कुटीम् उपेत्य भूतः अकथयत्--"स्वामिन्, कार्यम् उच्यताम् ।"

स्वामी आदिशत्, "मम कुटीम् प्रासादं कुरु ।"

निमेषमात्रेण तस्य कुटी--प्रासादे परिणता जाता । ततः स तं वनानि छेत्तुम् आदिशत् । अल्पेन कालेन वनानि छिन्नानि अभवन् । तत्पश्चात् स नवीननगरनिर्माणाय तम् आदिष्टवान् ।

नगरे निर्मिते जाते स काष्ठहारकः विश्वभ्रमणस्य कामनां प्राकटयत् । तेन भूतेन स विश्वभ्रमणं कारितः ।

काष्ठहारकः सर्वम् ईप्सितं पूर्णं जातम् । पुनः कार्यं पृष्टः स किंकर्त्तव्यविमूढः सन् प्राणहानिभीतः ईश्वरम् अस्मरत् । तदा तस्य दृष्टिः समीपस्थे एकस्मिन् कुक्कुरे अपतत् ।

स भूतम् आदिशत्, "कुक्कुरस्य अस्य वक्रं पुच्छं सरलं कुरु ।"



भूतः तत्क्षणं लांगलस्य सरलीकरणे प्रवृत्तो जातः, किन्तु साफल्यं न प्राप । भूतः श्रीन्तो भूत्वा पराजयं स्वीचकार । किन्तु तत्स्वामी दृढतया अभाषत, आदिष्टं कर्म समाचर । स भूतः तदादेशं पालयन् अद्यापि वक्रं शुनः पुच्छं सरलीकर्तुं प्रयतते ।

===============================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.)  संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
 https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें