शुक्रवार, 6 मई 2016

प्रेमबन्धनम्

!!!---: प्रेमबन्धनम् :---!!!
==============================

पुरा कोशलदेशे एकः भीषणः दस्युः अवसत् । तस्य नाम अंगुलीमाल इति आसीत् । लोकानां लुण्ठनं हननं च तस्य दैनिकं कृत्यम् । असौ यान् हन्ति स्म, तेषाम् अंगुलीः छित्त्वा ताभिः मालां विरच्य कण्ठे अधारयत्, अतः तस्य अंगुलिमाल इति ख्यातिः जाता ।

तेषु दिनेषु कोशलदेशे प्रसेनजितस्य शासनम् आसीत् । अंगुलिमालस्य कृत्यैः दुःखितां प्रजां त्रातुं तेन कृताः यत्नाः फलवन्तः नासन् । तस्य निग्रहणे कृतः सैन्यबलप्रयोगः अपि अकिञ्चित्करः जातः ।

तदानीं कोशलदेशे भगवन्तं बुद्धं समागतं ज्ञात्वा प्रसेनजितः तस्य दर्शनार्थं गतवान् । तथागतः तं विषण्णवदनं विलोक्य अपृच्छत्, राजन् ! कथं भवान् चिन्ताकुलः लक्ष्यते ?"

राजा तस्मै अंगुलिमालस्य विषये सर्वं न्यवेदयत् अवदत च "यदहं तं निग्रहीतुं दिवानिशं यत्नपरोस्मि ।"

भगवान् बुद्धः सस्मितं न्यगादीत्, यत् भवदीयैः बलप्रयोगैः अद्यावधि नासैौ निगृहीतः, किन्तु यदि स धर्मपरायणः भूत्वा भवतः समक्षम् आयाति, तदा किं करिष्यति भवान् ??"

प्रसेनजितः अवादीत्, अहं तस्य अभिनन्दनं करिष्यामि तं रक्षिष्यामि च । तदा भगवान् बुद्धः समीपस्थम् एकं काषायधारिणं पुरुषं राज्ञः समक्षे अकरोत् अवदत् च एषोस्ति भवतः अपराधी । अंगुलिमालं विलोक्य राजा चकम्पे , किन्तु भगवान् बुद्धः तमं आश्वासयन् उवाच---"राजन्, मा भैषीः । सम्प्रति एष प्रेमबन्धनेन बद्धः नापरिष्यतीति । अधुना अस्य नवं जन्म जातम् । यत्कार्यं बलप्रयोगेण न सिध्यति तत् प्रेम्णा कारुण्येन चानायासं सम्पद्यते ।"

प्रसेनजितः प्रेम्णा अंगुलिमालस्य अभिनन्दनं चक्रे, सोपि विनम्र---भावेन राजानं प्रणम्य अवदत् , "राजन्, अहम् आत्मनः दुष्कृत्यानां कृते भषम् अनुतपामि । क्षम्यतां मदीयाः अपराधाः । भगवतः तथागतस्य अनुकम्पयैव अहं दुश्चरितानि परिहाय साधनापये प्रवृत्तोस्मि ।"

राजा उभौ अभिवाद्य मुदितमनाः स्वराजभवनं प्रति प्रतस्थे ।
===============================
www.facebook.com/chaanakyaneeti
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें