शुक्रवार, 20 मई 2016

आचरेण विना किं भविता ?

!!!---: आचरेण विना किं भविता :---!!!
==============================
एकदा केनचित् पुरुषेण कतिपये शुकाः पालिताः । स तेभ्यः अन्नकणान् दाडिमादिफलानि च ददाति स्म । ते कदाचित् पञ्जरस्थाः ओम् ओम् इति शब्दान् उच्चारयन्ति स्म , कदाचित् च पञ्जरात् मुक्ताः व्योम्नि विचरन्ति स्म । एकदा स जनः अचिन्यत्, यत् एते कीराः मुक्तभावेन गगने विहरन्ति । कश्चिद् व्याधः आगत्य तण्डुलान् विकीर्य जालं च प्रसार्य एतान् यदि गृह्णाति, तदा किं करिष्यामि ।

अकस्मात् तस्य मनसि एष विचारः प्रास्फुरत्, यदि अहम् एतान् कीरान् शिक्षितान् करोमि, तदा ते व्याधस्य जाले न पतिष्यन्ति ।

एवं विचार्य स प्रत्यहं तान् एवम् अशिक्षयत्---

"कश्चिद् व्याधः आयाति
साकं जालेन आयाति
क्षिप्तं धान्यं वसुधायां
किमहं किमहम् अश्नीयाम्
जाले नाहं तिष्ठेयम्
धान्यं नाहं खादेयम् ।"

कतिपयैः दिनैः कारिताभ्यासाः ते शुकाः यत्र तत्र इदं गीतं गायन्ति स्म । गीतं गायतः तान् वीक्ष्य स जनः वीतचिन्तः जातः ।

एकदा प्रभातवेलायां तस्य जनस्य अनुपस्थितौ कश्चिद् आखेटकः तत्र प्राप्तः ।

स गृहसमीपवर्तिनि रिक्ते भूभागे जालं प्रसारितवान्, तण्डुलकणान् च विकीर्णवान् ।

धान्यं विकीर्णं वीक्ष्य ते शुकाः अन्ये पक्षिणः च जाले समपतन्, अन्नभक्षणे च तत्परा अभवन् । सर्वे खगाः जाले निबद्धा जाताः ।

बन्धनपतिता अपि शुका पूर्वाभ्यासेन तद् वाक्यकदम्बकम् आरटन्ति स्म---

"कश्चिद् व्याधः आयाति
साकं जालेन आयाति
क्षिप्तं धान्यं वसुधायां
किमहं किमहम् अश्नीयाम्
जाले नाहं तिष्ठेयम्


धान्यं नाहं खादेयम् ।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें