बुधवार, 25 मई 2016

शक्तिमहिमा

!!!---: शक्तिमहिमा :---!!!
=========================

अस्मिन् संसारे शक्तेः महिमा सर्वत्र दृश्यते । इयं शक्तिः देवेषु, दानवेषु, मानवेषु, पशुषु, पक्षिषु, ग्रहनक्षत्रेषु च सर्वत्र वर्तते ।

शक्तिं विना न सिद्ध्यति किमपि कार्यम् । पश्यतु भवान् सूर्यम् आकाशे, अयं रविः शक्त्या एव भासते तपति च । चन्द्रः अपि शक्त्या एव तमो हरति (निवारयति), लोकानां मनांसि आनन्दयति च । शक्ति-प्रभावादेव अग्निः दहति, वायुः वाति, जलं च वहति । किं बहुना, इयं पृथिवी अपि शक्त्या एव सर्वं धारयति ।

यत्र शक्तिः तत्रैव जीवनम् । यत्र नास्ति शक्तिः न तत्र जीवनम् । अग्नेः शक्तिः दाहकता अस्ति । यावत् तिष्ठति तत्र दाहकता तावत् एव अग्निं अग्निरिति मन्यते । अन्यथा असौ भस्म इति कथ्यते । पिपीलिकाः अपि तदुपरि सुखेन चलितुं शक्नुवन्ति ।

इदं जगत् निरन्तरं गतिशीलम् अस्ति । सूर्यः चलति, चन्द्रः चलति, ग्रहाः चलन्ति, नक्षत्राणि चलन्ति । देवाः, मनुष्याः, पशवः, पक्षिणः, जलचराश्च निरन्तरं चलन्ति । सर्वेषु गतिः वर्तते । इयं गतिः, इयं क्रिया, इयं स्थितिः--इत्येतत् सर्वं न भवितुमर्हति शक्तिं विना । अतः स्पष्टं वक्तुं शक्यते यत् अयं संसारः शक्तेः एव विलासः ।

इयं शक्तिः बहुविधा वर्तते---शरीरशक्तिः, बुद्धिशक्तिः, धनशक्तिः, जनशक्तिः, सैन्यशक्तिः, राष्ट्रशक्तिश्च । आसु बुद्धिशक्तिरेव श्रेष्ठा । यस्य शारीरिकं बलं स्यात् परं बुद्धिः न स्यात् तस्य तद् बलं व्यर्थम् एव । बलवान् अपि गजः बुद्धिमता मनुष्येण तद् वशम् आनीयते । ऊयानकः अपि सिंहः बुद्धिबलात् पञ्जरबद्धः क्रियते । बुद्धिं विना सिद्धिः न मिलति । बुद्ध्या एव विद्या प्राप्यते, बुद्ध्या एव यन्त्राणि निर्मीयन्ते ।

यद्यपि "सङ्घे शक्तिः कलौ युगे" इति कथितं, तथापि बुद्धेः महती आवश्यकता । अत एव कस्यापि संघस्य सञ्चालनं बुद्धिमन्तं नेतारम् अपेक्षते । परं बुद्धिस्तु सा एव हितकारिणी या सन्मार्गम् अनुसरति । इयमेव जीवनस्य उपलब्धिः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
 www.facebook.com/aryavartgaurav
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें